________________
વીતરાગસ્તોત્ર સૂક્ત - रत्न
મંજૂષા
दानशीलतपोभाव-भेदाद् धम्मं चतुविधम् ।
मन्ये युगपदाख्यातुं चतुर्वक्त्रोऽभवद् भवान् ।।३३।। त्वयि दोषत्रयात् प्रातं प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुः, त्रयोऽपि त्रिदिवौकसः ।।३४।। अधोमुखाः कण्टकाः स्युः धात्र्यां विहरतस्तव । भवेयुः संमुखीनाः किं, तामसास्तिग्मरोचिषः ? ।। ३५ ।। केशरोमनखश्मश्रु तवावस्थितमित्ययम् । बाह्योऽपि योगमहिमा, नाप्तस्तीर्थकरैः परैः ।। ३६ ।। शब्दरूपरसस्पर्श-गन्धाख्याः पञ्च गोचराः । भजन्ति प्रातिकूल्यं न व तार्किक इव ।। ३७।। ४/९ त्वत्पादावृतवः सर्वे युगपत् पर्युपासते । आकालकृतकन्दर्णसाहाय्यकभयादिव ||३८|| ४/१० सुगन्ध्युदकवर्षण, दिव्यपुष्पोत्करेण च
भावित्वत्पादसंस्पर्शा, पूजयन्ति भुवं सुरा ।। ३९ ।। जगत्प्रतीक्ष्य त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणम् । का गतिर्महतां तेषां त्वयि ये वामवृत्तयः ? ।।४० ।। ४ / १२ पञ्चेन्द्रियाणां दौः शील्यं, क्व भवेद् भवदन्तिके ? । एकेन्द्रियोऽपि यन्मुञ्चत्यनिलः प्रतिकूलताम् ।।४१।। ४ / १३ मूर्ध्ना नमन्ति तरव:, त्वन्माहात्म्यचमत्कृताः ।
तत्कृतार्थं शिरस्तेषां व्यर्थं मिथ्यादृशां पुनः ।।४२।। ४/१४ जघन्यतः कोटिसङ्ख्याः, त्वां सेवन्ते सुरासुराः । भाग्यसम्भारलभ्येऽर्थे, न मन्दा अप्युदासते ||४३||
४/४
४/५
४ / ६
४/७
४/८
२43