________________
૨૫૨
વીતરણસ્તોત્ર સૂક્ત- રત્ન- મંજૂષા
३/८
३/५ नाविर्भवन्ति यद् भूमी, मूषकाः शलभाः शुकाः ।
क्षणेन क्षितिपक्षिप्ता, अनीतय इवेतयः ।।२२।। ३/६ स्त्रीक्षेत्रपद्रादिभवो, यद् वैराग्निः प्रशाम्यति ।
त्वत्कृपापुष्करावर्त्त-वर्षादिव भुवस्तले ।।२३।। ३/७ त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेदडिण्डिमे ।
सम्भवन्ति न यन्नाथ !, मारयो भुवनारयः ।।२४।। कामवर्षिणि लोकानां, त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा, भवेद् यन्त्रोपतापकृत् ।।२५।। स्वराष्ट्रपरराष्ट्रेभ्यो, यत् क्षुद्रोपद्रवा द्रुतम् ।
विद्रवन्ति त्वत्प्रभावात्, सिंहनादादिव द्विपाः ।।२६।। ३/१० यत् क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि ।
सर्वाद्भुतप्रभावाढ्ये, जङ्गमे कल्पपादपे ।।२७।। ३/११ यन्मूल: पश्चिमे भागे, जितमार्तण्डमण्डलम ।
मा भूद् वपुर्दुरालोकं, इतीवोत्पिण्डितं महः ।।२८।। मैत्रीपवित्रपात्राय, मुदितामोदशालिने ।
कृपोपेक्षाप्रतीक्षाय, तुभ्यं योगात्मने नमः ।।२९।। ४/१
मिथ्यादृशां युगान्तार्कः, सुदृशाममृताञ्जनम् ।
तिलकं तीर्थकृल्लक्ष्याः , पुरश्चक्रं तवैधते ।।३०।। ४/२ एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छ्रिता ।
उच्चैरिन्द्रध्वजव्याजात्, तर्जनी जम्भविद्विषा ।।३१।। ४/३ यत्र पादौ पदं धत्तः, तव तत्र सुरासुराः ।
किरन्ति पङ्कजव्याजात्, श्रियं पङ्कजवासिनीम् ।।३२।।
३/१५