________________
૨૫૧
२/४
વીતરાગસ્તોત્ર સૂક્ત - રત્ન-મંજૂષા २/२ मन्दारदामवन्नित्यम्, अवासितसुगन्धिनि ।
__तवाङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ।।११।। २/३ दिव्यामृतरसास्वाद-पोषप्रतिहता इव ।
समाविशन्ति ते नाथ !, नाङ्गे रोगोरगव्रजाः ।।१२।। त्वय्यादर्शतलालीन-प्रतिमाप्रतिरूपके ।
क्षरत्स्वेदविलीनत्व-कथाऽपि वपुषः कुतः? ।।१३।। २/५ न केवलं रागमुक्तं, वीतराग ! मनस्तव ।
वपुःस्थितं रक्तमपि, क्षीरधारासहोदरम् ।।१४।। जगद्विलक्षणं किं वा, तवान्यद्वक्तुमीश्महे ? । यदविस्रमबीभत्सं, शुभ्रं मांसमपि प्रभो ! ।।१५।। जलस्थलसमुद्भूताः, सन्त्यज्य सुमनःस्रजः ।
तव निःश्वाससौरभ्यम्, अनुयान्ति मधुव्रताः ।।१६।। २/८ लोकोत्तरचमत्कार-करी तव भवस्थितिः ।
यतो नाहारनीहारी, गोचरश्चर्मचक्षुषाम् ।।१७।। ३/१ सर्वाभिमुख्यतो नाथ !, तीर्थकृन्नामकर्मजात् ।
सर्वथा सम्मुखीनस्त्वम्, आनन्दयसि यत्प्रजाः ।।१८।। ३/२ यद् योजनप्रमाणेऽपि, धर्मदेशनसद्मनि ।
सम्मान्ति कोटिशस्तिर्यग्-नृदेवाः सपरिच्छदाः ।।१९।। ३/३ तेषामेव स्वस्वभाषा-परिणामनोहरम् ।
अप्येकरूपं वचनं, यत् ते धर्मावबोधकृत् ।।२०।। ३/४ साग्रेऽपि योजनशते, पूर्वोत्पन्ना गदाम्बुदाः ।
यदञ्जसा विलीयन्ते, त्वद्विहारानिलोमिभिः ।।२१।।