SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २५० વીતરાગસ્તોત્ર સૂક્ત- રત્ન - મંજૂષા વીતરાગસ્તોત્ર સૂક્ત - રત્ન - મંજૂષા कलिकालसर्वज्ञहेमचन्द्रसूरिकृतं वीतरागस्तोत्रं १/१ यः परात्मा परं ज्योतिः, परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः, परस्तादामनन्ति यम् ।।१।। /२ सर्वे येनोदमूल्यन्त, समूलाः क्लेशपादपाः । मूर्जा यस्मै नमस्यन्ति, सुरासुरनरेश्वराः ।।२।। प्रावर्त्तन्त यतो विद्याः, पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भावि-भूतभावावभासकृत् ।।३।। /४ यस्मिन् विज्ञानमानन्दं, ब्रह्म चैकात्मतां गतम् । स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम् ।।४।। १/५ तेन स्यां नाथवाँस्तस्मै, स्पृहयेयं समाहितः । ततः कृतार्थो भूयासं, भवेयं तस्य किङ्करः ।।५।। १/६ तत्र स्तोत्रेण कुर्यां च, पवित्रां स्वां सरस्वतीम् । इदं हि भवकान्तारे, जन्मिनां जन्मनः फलम् ।।६।। क्वाहं पशोरपि पशुः ?, वीतरागस्तवः क्व च ? । उत्तितीर्घररण्यानीं, पद्भ्यां पङ्गुरिवारम्यतः ।।७।। तथाऽपि श्रद्धामुग्धोऽहं, नोपालभ्यः स्खलन्नपि । विशृङ्खलाऽपि वाग्वृत्तिः, श्रद्दधानस्य शोभते ।।८।। श्रीहेमचन्द्रप्रभवाद्, वीतरागस्तवादितः । कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ।।९।। २/१ प्रियङ्गु-स्फटिक-स्वर्ण-पद्मरागाञ्जनप्रभः । प्रभो ! तवाधौतशुचिः, कायः कमिव नाक्षिपेत् ? ।।१०।।
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy