________________
૨૪૯
દ્વાદિંશ દ્વાબિંશિકા સૂક્ત - રત્ન - મંજૂષા २९/११शक्त्यग्रज्वलनव्याल-सिंहक्रोधातिशायिनी ।
अनन्तदुःखजननी, कीर्तिता गुरुहीलना ॥१९॥ २९/१२ पठेद् यस्यान्तिके धर्म-पदान्यस्यापि सन्ततम् ।
कायवाङ्मनसां शुद्ध्या, कुर्याद् विनयमुत्तमम् ॥१००॥ २९/१३ पर्यायेण विहीनोऽपि, शुद्धज्ञानगुणाधिकः ।
ज्ञानप्रदानसामर्थ्याद्, अतो रत्नाधिकः स्मृतः ॥१०१॥ २९/१७विनयेन विना न स्याद्, जिनप्रवचनोन्नतिः ।
पयःसेकं विना किं वा, वर्धते भुवि पादपः ?॥१०२॥ २९/१८ विनयं ग्राह्यमाणो यो, मृदूपायेन कुप्यति ।
उत्तमां श्रियमायान्ती, दण्डेनापनयत्यसौ ॥१०३॥ २९/१३ इत्थं च विनयो मुख्यः, सर्वानुगमशक्तितः ।
मिष्टान्नेष्विव सर्वेषु, निपतन्निक्षुजो रसः ॥१०४॥ २९/२९ श्रुतस्याप्यतिदोषाय, ग्रहणं विनयं विना ।
यथा महानिधानस्य, विना साधनसन्निधिम् ॥१०५॥ २९/३०विनयस्य प्रधानत्व-द्योतनायैव पर्षदि ।
तीर्थं तीर्थपतिर्नत्वा, कृतार्थोऽपि कथां जगौ ॥१०६॥ २९/३१ छिद्यते विनयो यैस्तु, शुद्धौञ्छादिपरैरपि ।
तैरप्यग्रेसरीभूय, मोक्षमार्गो विलुप्यते ॥१०७॥ ३२/३२ यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्यांशुधारा,
निस्तारात् जन्मसिन्धोः शिवपदपदवीं प्राणिनो यान्ति यस्मात् । अस्माकं किञ्च यस्माद् भवति शमरसैनित्यमाकण्ठतृप्तिः, जैनेन्द्र शासनं तद् विलसति परमानन्दकन्दाम्बुवाहः ॥१०८॥