________________
૨૪૬
દ્વાદિંશદ્ દ્વાબિંશિકા સૂક્ત- રત્ન-મંજૂષા
१३/६ गुरुदोषवतः स्वल्पा, सत्क्रियाऽपि गुणाय न ।
भौतहन्तुर्यथा तस्य, पादस्पर्शनिषेधनम् ॥६६॥ २/८ गुरुदोषकृतां वृत्तम्, अपि त्याज्यं लघुत्यजाम् ।
जाड्यत्यागाय पतनं, ज्वलति ज्वलने यथा ॥६७॥ २/१६ एतेनैवोपवासादेः, वैयावृत्त्यादिघातिनः ।
नित्यत्वमेकभक्तादेः, जानन्ति बलवत्तया ॥६८॥ ७/२९ यत्नतो जीवरक्षाऽर्था, तत्पीडाऽपि न दोषकृत् ।
अपीडनेऽपि पीडैव, भवेदयतनावतः ॥६९॥ ७/३० रहस्यं परमं साधोः, समग्रश्रुतधारिणः ।
परिणामप्रमाणत्वं, निश्चयैकाग्रचेतसः ॥७०॥ ७/३१ तिष्ठतो न शुभो भावो, ह्यसदायतनेषु च ।
गन्तव्यं तत् सदाचार-भावाभ्यन्तरवर्त्मना ॥७१॥ ८/२८ हिंस्यकर्मविपाके यद्, दुष्टाशयनिमित्तता ।
हिंसकत्वं न तेनेदं, वैद्यस्य स्याद् रिपोरिव ॥७२॥ ३/१ मार्गः प्रवर्तकं मानं, शब्दो भगवतोदितः ।
संविग्नाशठगीतार्थाचरणं चेति स द्विधा ॥७३॥ ३/२ द्वितीयानादरे हन्त !, प्रथमस्याप्यनादरः ।
जीतस्यापि प्रधानत्वं, साम्प्रतं श्रूयते यतः ॥७४॥ ३/३ अनुमाय सतामुक्ताचारेणागममूलताम् ।
पथि प्रवर्तमानानां, शक्या नान्धपरम्परा ॥७५॥ ३/५ निषेधः सर्वथा नास्ति, विधिर्वा सर्वथाऽऽगमे ।
आय व्ययं च तुलयेत्, लाभाकाङ्क्षी वणिग् यथा ॥७६॥