________________
દ્વાદિંશ દ્વાબિંશિકા સૂક્ત- રત્ન- મંજૂષા
૨૪૫
३/९ दर्शयद्भिः कुलाचार-लोपादामुष्मिकं भयं ।।
वारयद्भिः स्वगच्छीय-गृहिणः साधुसङ्गतिम् ॥५५॥ ३/१० द्रव्यस्तवं यतीनामप्यनुपश्यद्भिरुत्तमम् ।
विवेकविकलं दानम्, स्थापयद्भिर्यथा तथा ॥५६॥ ३/११ अपुष्टालम्बनोत्सिक्तैः, मुग्धमीनेषु मैनिकैः ।
इत्थं दोषादसंविग्नैः, हहा ! विश्वं विडम्बितम् ॥५७॥ ३/१२ अप्येष शिथिलोल्लापो, न श्राव्यो गृहमेधिनाम् ।
सूक्ष्मोऽर्थ इत्यदोऽयुक्तं, सूत्रे तद्गुणवर्णनात् ॥५८॥ ३/१५ समुदाये मनाग् दोष-भीतैः स्वेच्छाविहारिभिः ।
संविग्नैरप्यगीताथैः, परेभ्यो नातिरिच्यते ॥५९॥ ३/१७ गीतार्थपारतन्त्र्येण, ज्ञानमज्ञानिनां मतम् ।
विना चक्षुष्मदाधारम्, अन्धः पथि कथं व्रजेत् ? ॥६०॥ ३/१८ तत्त्यागेनाफलं तेषां, शुद्धोञ्छादिकमप्यहो ! ।
विपरीतफलं वा स्याद्, नौभङ्ग इव वारिधौ ॥६१॥ ३/१९ अभिन्नग्रन्थयः प्रायः, कुर्वन्तोऽप्यतिदुष्करम् ।
बाह्या इवाव्रता मूढा, ध्वांक्षज्ञातेन दर्शिताः ॥६२॥ ३/२१ ये तु स्वकर्मदोषेण, प्रमाद्यन्तोऽपि धार्मिकाः ।
संविग्नपाक्षिकास्तेऽपि, मार्गान्वाचयशालिनः ॥६३॥ ३/२२ शुद्धप्ररूपणैतेषां, मूलमुत्तरसम्पदः ।
सुसाधुग्लानिभैषज्य-प्रदानाभ्यर्चनादिकाः ॥६४॥ ३/२३ आत्मार्थं दीक्षणं तेषां, निषिद्धं श्रूयते श्रुते ।
ज्ञानाद्यर्थाऽन्यदीक्षा च, स्वोपसम्पच्च नाहिता ॥६५॥