________________
२४४
२७ / १५ उद्वेगो हसितं शोको रुदितं क्रन्दितं तथा ।
यस्य नास्ति जुगुप्सा च, क्रीडा चापि कदाचन ॥४४॥ २७ / १६ इदं शरीरमशुचि, शुक्रशोणितसम्भवम् ।
अशाश्वतं च मत्वा यः, शाश्वतार्थं प्रवर्तते ॥ ४५ ॥ २७/१७स भावभिक्षुर्भेतृत्वाद्, आगमस्योपयोगतः । भेदनेनोग्रतपसा भेद्यस्याशुभकर्मणः ॥ ४६ ॥ २७/२३ संवेगो विषयत्यागः, सुशीलानां च सङ्गतिः । ज्ञानदर्शनचारित्राराधना विनयस्तपः ॥४७॥
"
દ્વાત્રિંશદ્ દ્વાત્રિંશિકા સૂક્ત - રત્ન - મંજૂષા
1
२७/२४ क्षान्तिर्मार्दवमृजुता, तितिक्षा मुक्त्यदीनते ।
आवश्यकविशुद्धिश्च, भिक्षोर्लिङ्गान्यकीर्त्तयन् ॥४८॥ २८ / १४इन्द्रियाणां कषायाणां गृह्यते मुण्डनोत्तरम् ।
या शिरोमुण्डनव्यङ्ग्या, तां सद्दीक्षां प्रचक्षते ॥४९॥ २८ / १७ शरीरेणैव युध्यन्ते, दीक्षापरिणती बुधाः ।
दुर्लभं वैरिणं प्राप्य, व्यावृत्ता वाह्ययुद्धतः ॥५०॥ २८/१९ शरीराद्यनुरागस्तु न गतो यस्य तत्त्वतः ।
तेषामेकाकिभावोऽपि, क्रोधादिनियतः स्मृतः ॥ ५१ ॥ २८/२१ ससङ्गप्रतिपत्तिर्हि, ममतावासनाऽत्मिका ।
असङ्गप्रतिपत्तिश्च, मुक्तिवाञ्छानुरोधिनी ॥ ५२ ॥ २८/२४ नारत्यानन्दयोरस्याम्, अवकाशः कदाचन ।
प्रचारो भानुमत्यभ्रे, न तमस्तारकत्विषोः ॥ ५३ ॥ २ / ७ गृहत्यागादिकं लिङ्ग, बाह्यं शुद्धि विना वृथा । न भेषजं विनाऽऽरोग्यं, वैद्यवेषेण रोगिणः ॥ ५४ ॥