________________
દ્વાદિંશદ્ દ્વામિંશિકા સૂક્ત- રત્ન - મંજૂષા
२४३ १७/३० औचित्येन प्रवृत्त्या च, सुदृष्टिर्यत्नतोऽधिकात् ।
पल्योपमपृथक्त्वस्य, चारित्रं लभते व्ययात् ॥३३॥ १७/३१ मार्गानुसारिता श्रद्धा, प्राज्ञप्रज्ञापनारतिः ।
गुणरागश्च लिङ्गानि, शक्यारम्भोऽपि चास्य हि ॥३४॥ २८/३ यस्य क्रियासु सामर्थ्य, स्यात् सम्यग् गुरुरागतः ।
योग्यता तस्य दीक्षायाम्, अपि माषतुषाकृतेः ॥३५॥ २७/२ पृथिव्यादींश्च षटकायान्, सुखेच्छूनसुखद्विषः ।
गणयित्वाऽऽत्मतुल्यान्, यो महाव्रतरतो भवेत् ॥३६॥ २७/५ न यश्चागामिनेऽर्थाय, सन्निधत्तेऽशनादिकम् ।
साधर्मिकान् निमन्त्र्यैव, भुक्त्वा स्वाध्यायकृच्च यः ॥३७॥ २७/६ न कुप्यति कथायां यो, नाप्युच्चैः कलहायते ।
उचितेऽनादरो यस्य, नादरोऽनुचितेऽपि च ॥३८॥ २७/७ आक्रोशादीन् महात्मा यः, सहते ग्रामकण्टकान् ।
न बिभेति भयेभ्यश्च, स्मशाने प्रतिमास्थितः ॥३९॥ २७/८ आक्रुष्टो वा हतो वाऽपि, लूषितो वा क्षमासमः ।
व्युत्सृष्टत्यक्तदेहो यो-ऽनिदानश्चाकुतूहलः ॥४०॥ २७/९ यश्च निर्ममभावेन, काये दोषैरुपप्लुते ।
जानाति पुद्गलान्यस्य, न मे किञ्चिदुपप्लुतम् ॥४१॥ २७/१२ अज्ञातोञ्छं चरन् शुद्धं, अलोलोऽरसगृद्धिमान् ।
ऋद्धिसत्कारपूजाश्च, जीवितं यो न काङ्क्षति ॥४२॥ २७/१३ यो न कोपकरं ब्रूयात्, कुशीलं न वदेत् परम् ।
प्रत्येकं पुण्यपापज्ञो, जात्यादिमदवर्जितः ॥४३॥
जान