________________
૨૪૨
દ્વાદિંશદ્ દ્વામિંશિકા સૂક્ત- રત્ન-મંજૂષા
१४/२७ आत्मनेष्टं गुरुर्ब्रते, लिङ्गान्यपि वदन्ति तत् ।
त्रिधाऽयं प्रत्ययः प्रोक्तः, सम्पूर्ण सिद्धिसाधनम् ॥२२॥ २०/३१मिथ्यात्वे मन्दतां प्राप्ते, मित्राद्या अपि दृष्टयः ।
मार्गाभिमुखभावेन, कुर्वते मोक्षयोजनम् ॥२३॥ २०/३२ प्रकृत्या भद्रकः शान्तो, विनीतो मृदुरुत्तमः ।
सूत्रे मिथ्यादृगप्युक्तः, परमानन्दभागतः ॥२४॥ १५/१ लक्ष्यते ग्रन्थिभेदेन, सम्यग्दृष्टिः स्वतन्त्रतः ।
शुश्रूषाधर्मरागाभ्याम्, गुरुदेवादिपूजया ॥२५॥ १५/२ भोगिकिन्नरगेयादि-विषयाधिक्यमीयुषी ।
शुश्रूषाऽस्य न सुप्तेश-कथाऽर्थविषयोपमा ॥२६॥ १५/३ अप्राप्ते भगवद्वाक्ये, धावत्यस्य मनो यथा ।
विशेषदर्शिनोऽर्थेषु, प्राप्तपूर्वेषु नो तथा ॥२७॥ १५/४ धर्मरागोऽधिको भावाद्, भोगिनः स्त्र्यादिरागतः ।
प्रवृत्तिस्त्वन्यथाऽपि स्यात्, कर्मणो बलवत्तया ॥२८॥ १५/५ तदलाभेऽपि तद्राग-बलवत्त्वं न दुर्वचम् ।
पूयिकाद्यपि यद् भुक्ते, घृतपूर्णप्रियो द्विजः ॥२९॥ १५/६ गुरुदेवादिपूजाऽस्य, त्यागात् कार्यान्तरस्य च ।
भावसारा विनिर्दिष्टा, निजशक्त्यनतिक्रमात् ॥३०॥ १५/११ तप्तलोहपदन्यास-तुल्या वृत्तिः क्वचिद् यदि ।
इत्युक्तेः कायपात्येव, चित्तपाती न स स्मृतः ॥३१॥ १५/२९ मिथ्यादृष्टिगृहीतं हि, मिथ्या सम्यगपि श्रुतम् ।
सम्यग्दृष्टिगृहीतं तु, सम्यग् मिथ्येति नः स्थितिः ॥३२॥