________________
દ્વાદિંશદ્ દ્વાચિંશિકા સૂક્ત- રત્ન- મંજૂષા
૨૪
३/६ प्रवाहधारापतितं, निषिद्धं यन्न दृश्यते ।
अत एव न तन्मत्या, दूषयन्ति विपश्चितः ॥७७॥ ९/१६ स्तोकस्यापि प्रमादस्य, परिणामोऽतिदारुणः ।
वर्ण्यमानः प्रबन्धेन, निर्वेजन्या रसः स्मृतः ॥७८॥ २/२४ वचनाराधनाद् धर्मो-ऽधर्मस्तस्य च बाधनात् ।
धर्मगुह्यमिदं वाच्यं, बुधस्य च विपश्चिता ॥७९॥ २/२८ आदौ यथारुचि श्राव्यं, ततो वाच्यं नयान्तरम् ।
ज्ञाते त्वेकनयेऽन्यस्मात्, परिशिष्टं प्रदर्शयेत् ॥८॥ २/२९ संविग्नभाविता ये स्युः, ये च पार्श्वस्थभाविताः ।
मुक्त्वा द्रव्यादिकं तेषां, शुद्धोञ्छं तेन दर्शितम् ॥८१॥ २/३० दुर्नयाभिनिवेशे तु, तं दृढं दूषयेदपि ।
दुष्टांशछेदतो नाङ्ग्री, दूषयेद् विषकण्टकः ॥८२॥ २/३१ जानाति दातुं गीतार्थो, य एवं धर्मदेशनाम् ।
कलिकालेऽपि तस्यैव, प्रभावाद् धर्म एधते ॥८३॥ ३/१ विधिना कथयन् धर्म, हीनोऽपि श्रुतदीपनात् ।
वरं तु न क्रियास्थोऽपि, मूढो धर्माध्वतस्करः ॥८४॥ २/३ अनुग्रहधिया वक्तुः, धर्मित्वं नियमेन यत् ।
भणितं तत्तु देशादि-पुरुषादिविदं प्रति ॥८५॥ २/५ अज्ञातवाविवेकानां, पण्डितत्वाभिमानिनाम् ।
विषं यद् वर्तते वाचि, मुखे नाशीविषस्य तत् ॥८६॥ ३/२६ मार्गभेदस्तु यः कश्चिद्, निजमत्या विकल्प्यते ।
स तु सुन्दरबुद्ध्याऽपि, क्रियमाणो न सुन्दरः ॥८७॥