________________
२39
યોગદૈષ્ટિ સમુચ્ચય ८१ यथा कण्डूयनेष्वेषां, धीन कच्छूनिवर्तने ।
भोगाङ्गेषु तथैतेषां, न तदिच्छा परिक्षये ॥६॥ ८४ बडिशामिषवत् तुच्छे, कुसुखे दारुणोदये ।
सक्तास्त्यजन्ति सच्चेष्टां, धिगहो ! दारुणं तमः ॥७७॥ १५३ बालधूलीगृहक्रीडा-तुल्याऽस्यां भाति धीमताम् ।
तमोग्रन्थिविभेदेन, भवचेष्टाऽखिलैव हि ॥७८॥ १५४ मायामरीचिगन्धर्व-नगरस्वप्नसंनिभान् ।
बाह्यान् पश्यन्ति तत्त्वेन, भावान् श्रुतविवेकतः ॥७९॥ १५८ धर्मादपि भवन् भोगः, प्रायोऽनर्थाय देहिनाम् ।
चन्दनादपि सम्भूतो, दहत्येव हुताशनः ॥८०॥ १५९ भोगात् तदिच्छाविरतिः, स्कन्धभारानुपपत्तये ।
स्कन्धान्तरसमारोपः, तत्संस्कारविधानतः ॥८१॥ १६३ मायाऽम्भस्तत्त्वतः पश्यन्, अनुद्विग्नस्ततो ध्रुवम् ।
तन्मध्येन प्रयात्येव, यथा व्याघातवर्जितः ॥८२॥ १६४ भोगान् स्वरूपतः पश्यन्, तथा मायोदकोपमान् ।
भुञ्जानोऽपि ह्यसङ्गः सन्, प्रयात्येव परं पदम् ॥८३॥ १७० सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् ।
एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥८४॥ १७१ पुण्यापेक्षमपि ह्येवं, सुखं परवशं स्थितम् ।
ततश्च दुःखमेवैतत्, तल्लक्षणनियोगतः ॥८५॥ १०९ संसारिषु हि देवेषु, भक्तिस्तत्कायगामिनाम् ।
तदतीते पुनस्तत्त्वे, तदतीतार्थयायिनाम् ॥८६॥