________________
૨૩૮
યોગબિંદુ - યોગદષ્ટિ સમુચ્ચય સૂક્ત - રત્ન - મંજૂષા
१२०
८७ बोधरोगः शमापायः श्रद्धाभङ्गोऽभिमानकृत् ।
कुतर्कश्चेतसो व्यक्तं, भावशत्रुरनेकधा ॥८७॥ कुतर्केऽभिनिवेशस्तद्, न युक्तो मुक्तिवादिनाम् ।
युक्तः पुनः श्रुते शीले, समाधौ च महात्मनाम् ॥८८॥ १४६ ग्रहः सर्वत्र तत्त्वेन, मुमुक्षूणामसङ्गतः ।
मुक्तौ धर्मा अपि प्रायः, त्यक्तव्या किमनेन तत् ? ॥८९॥ १२१ आदरः करणे प्रीतिः, अविघ्नः सम्पदागमः ।
जिज्ञासा तज्ज्ञसेवा च, सदनुष्ठानलक्षणम् ॥१०॥ ११९ इन्द्रियार्थाश्रया बुद्धिः, ज्ञानं त्वागमपूर्वकम् ।
सदनुष्ठानवच्चैतद्, असंमोहोऽभिधीयते ॥११॥ रत्नोपलम्भतज्ज्ञान-तत्प्राप्त्यादि यथाक्रमम् ।
इहोदाहरणं साधु, ज्ञेयं बुद्धयादिसिद्धये ॥१२॥ १२२ बुद्धिपूर्वाणि कर्माणि, सर्वाण्येवेह देहिनाम् ।
संसारफलदान्येव, विपाकविरसत्वतः ॥१३॥ १२३ ज्ञानपूर्वाणि तान्येव, मुक्त्यङ्गं कुलयोगिनाम् ।
श्रुतशक्तिसमावेशाद्, अनुबन्धफलत्वतः ॥१४॥ १२४ असंमोहसमुत्थानि, त्वेकान्तपरिशुद्धितः ।
निर्वाणफलदान्याशु, भवातीतार्थयायिनाम् ॥१५॥ १४८ परपीडेह सूक्ष्माऽपि, वर्जनीया प्रयत्नतः ।
तद्वत् तदुपकारेऽपि, यतितव्यं सदैव हि ॥१६॥ १४९ गुरवो देवता विप्रा, यतयश्च तपोधनाः ।
पूजनीया महात्मानः, सुप्रयत्नेन चेतसा ॥१७॥