________________
૨૩૫
યોગબિંદુ / યોગદષ્ટિ સમુચ્ચય ३५८ औचित्याद् वृत्तयुक्तस्य, वचनात् तत्त्वचिन्तनम् ।
मैत्र्यादिसारमत्यन्तं, अध्यात्मं तद्विदो विदुः ॥५४॥ ३६० अभ्यासोऽस्यैव विज्ञेयः, प्रत्यहं वृद्धिसङ्गतः ।
मनःसमाधिसंयुक्तः, पौनःपुन्येन भावना ॥५५॥ ३६२ शुभैकालम्बनं चित्तं, ध्यानमाहुर्मनीषिणः ।
स्थिरप्रदीपसदृशं, सूक्ष्माभोगसमन्वितम् ॥५६॥ ३६४ अविद्याकल्पितेषूच्चैः, इष्टानिष्टेषु वस्तुषु ।
संज्ञानात् तद्व्युदासेन, समता समतोच्यते ॥५७॥ ३६६ अन्यसंयोगवृत्तीनां, यो निरोधस्तथा तथा ।
अपुनर्भावरूपेण, स तु तत्संक्षयो मतः ॥५८॥ __- हरिभद्रसूरिकृतः योगदृष्टिसमुच्चयः ~~ नत्वेच्छायोगतोऽयोगं, योगिगम्यं जिनोत्तमम् । वीरं वक्ष्ये समासेन, योगं तदृष्टिभेदतः ॥५९॥ कर्तुमिच्छोः श्रुतार्थस्य, ज्ञानिनोऽपि प्रमादतः । विकलो धर्मयोगो यः, स इच्छायोग उच्यते ॥६०॥ शास्त्रयोगस्त्विह ज्ञेयो, यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन, वचसाऽविकलस्तथा ॥११॥ शास्त्रसन्दर्शितोपायः, तदतिक्रान्तगोचरः । शक्त्युरेकाद् विशेषेण, सामर्थ्याख्योऽयमुत्तमः ॥६२॥ जिनेषु कुशलं चित्तं, तन्नमस्कार एव च । प्रणामादि च संशुद्धं, योगबीजमनुत्तमम् ॥६३॥ उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्ध ह्येतदीदृशम् ॥६४॥