________________
યોગબિંદુ - યોગદષ્ટિ સમુચ્ચય સૂક્ત - રત્ન - મંજૂષા २१५ आद्यान्न दोषविगमः, तमोबाहुल्ययोगतः ।
तद्योग्यजन्मसन्धानं, अत एके प्रचक्षते ॥४३॥ २१७ द्वितीयाद् दोषविगमो, न त्वेकान्तानुबन्धनात् ।
गुरुलाघवचिन्तादि, न यत्तत्र नियोगतः ॥४४॥ २१९ तृतीयाद् दोषविगमः, सानुबन्धो नियोगतः ।
गृहाद्यभूमिकाऽऽपात-तुल्यः कैश्चिदुदाहृतः ॥४५॥ १४८ सच्चेष्टितमपि स्तोकं, गुरुदोषवतो न तत् ।
भौतहन्तुर्यथाऽन्यत्र, पादस्पर्शनिषेधनम् ॥४६॥ १४४ अत एव च शस्त्राग्नि-व्यालदुर्ग्रहसन्निभः ।
श्रामण्यदुर्ग्रहोऽस्वन्तः, शास्त्र उक्तो महात्मभिः ॥४७॥ पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् ।
चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥४८॥ २२८ यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः ।
उन्मत्तगुणतुल्यत्वात्, न प्रशंसाऽऽस्पदं सताम् ॥४९॥ २२९ मलिनस्य यथाऽत्यन्तं, जलं वस्त्रस्य शोधनम् ।
अन्तःकरणरत्नस्य, तथा शास्त्रं विदुर्बुधाः ॥५०॥ २३० शास्त्रे भक्तिर्जगद्वन्द्यैः, मुक्तेफ़्ती परोदिता ।
अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः ॥५१॥ २३१ तथाऽऽत्मगुरुलिङ्गानि, प्रत्ययस्त्रिविधो मतः ।
सर्वत्र सदनुष्ठाने, योगमार्गे विशेषतः ॥५२॥ ३१ अध्यात्म भावना ध्यानं, समता वृत्तिसंक्षयः ।
मोक्षेण योजनाद् योग, एष श्रेष्ठो यथोत्तरम् ॥५३॥