________________
२33
યોગબિંદુ १५७ दिव्यभोगाभिलाषेण, गरमाहर्मनीषिणः ।
एतद् विहितनीत्यैव, कालान्तरनिपातनात् ॥३२॥ १५८ अनाभोगवतश्चैतद्, अननुष्ठानमुच्यते ।
सम्प्रमुग्धं मनोऽस्येति, ततश्चैतद् यथोदितम् ॥३३॥ १५९ एतद्रागादिदं हेतुः, श्रेष्ठो योगविदो विदुः ।
सदनुष्ठानभावस्य, शुभभावांशयोगतः ॥३४॥ १६० जिनोदितमिति त्वाहुः, भावसारमदः पुनः ।
संवेगगर्भमत्यन्तं, अमृतं मुनिपुङ्गवाः ॥३५॥ २०३ भिन्नग्रन्थेस्तु यत्प्रायो, मोक्षे चित्तं भवे तनुः ।
तस्य तत्सर्व एवेह, योगो योगो हि भावतः ॥३६॥ २०४ नार्या यथाऽन्यसक्तायाः, तत्र भावे सदा स्थिते ।
तद्योग: पापबन्धश्च, तथा मोक्षेऽस्य दृश्यताम् ॥३७॥ २५३ शुश्रूषा धर्मरागश्च, गुरुदेवादिपूजनम् ।
यथाशक्ति विनिर्दिष्टं, लिङ्गमस्य महात्मभिः ॥३८॥ २११ विषयात्माऽनुबन्धैस्तु, त्रिधा शुद्धमुदाहृतम् ।
अनुष्ठानं प्रधानत्वं, ज्ञेयमस्य यथोत्तरम् ॥३९॥ २१२ आद्यं यदेव मुक्त्यर्थं, क्रियते पतनाद्यपि ।
तदेव मुक्त्युपादेय-लेशभावाच्छुभं मतम् ॥४०॥ २१३ द्वितीयं तु यमाद्येव, लोकदृष्ट्या व्यवस्थितम् ।
न यथाशास्त्रमेवेह, सम्यग्ज्ञानाद्ययोगतः ॥४१॥ २१४ तृतीयमप्यदः किन्तु, तत्त्वसंवेदनाऽनुगम् ।
प्रशान्तवृत्त्या सर्वत्र, दृढमौत्सुक्यवर्जितम् ॥४२॥