________________
ષોડશક
૨૨૭
१२/४ चक्षुष्मानेकः स्याद्, अन्धोऽन्यस्तन्मतानुवृत्तिपरः ।
गन्तारौ गन्तव्यं, प्राप्नुत एतौ युगपदेव ॥८५॥ १२/५ यस्यास्ति सत्क्रियायां, इत्थं सामर्थ्ययोग्यताऽविकला ।
गुरुभावप्रतिबन्धाद्, दीक्षोचित एव सोऽपि किल ॥८६॥ १३/१ गुरुविनयः स्वाध्यायो, योगाभ्यासः परार्थकरणं च ।
इतिकर्तव्यतया सह, विज्ञेया साधुसच्चेष्टा ॥८७॥ १३/२ औचित्याद् गुरुवृत्तिः, बहुमानस्तत्कृतज्ञताचित्तम् ।
आज्ञायोगस्तत्सत्यकरणता, चेति गुरुविनयः ॥४७॥ १३/५ विहितानुष्ठानपरस्य, तत्त्वतो योगशुद्धिसचिवस्य ।
भिक्षाऽटनादि सर्वं, परार्थकरणं यतेहूयम् ॥८९॥ ४/१५ परहितचिन्ता मैत्री, परदुःखविनाशिनी तथा करुणा ।
परसुखतुष्टिर्मुदिता, परदोषोपेक्षणमुपेक्षा ॥१०॥ १३/९ उपकारिस्वजनेतरसामान्य-गता चतुर्विधा मैत्री ।
मोहासुखसंवेगान्यहितयुता चैव करुणेति ॥११॥ १३/१० सुखमात्रे सद्धेतौ, अनुबन्धयुते परे च मुदिता तु ।
करुणाऽनुबन्धनिर्वेद-तत्त्वसारा ह्युपेक्षेति ॥१२॥ १३/१५ सिद्धान्तकथा सत्सङ्गमश्च, मृत्युपरिभावनं चैव ।
दुष्कृतसुकृतविपाका-लोचनमथ मूलमस्यापि ॥१३॥ १४/३ खेदोद्वेगक्षेपोत्थान-भ्रान्त्यन्यमुद्रुगासङ्गैः ।
युक्तानि हि चित्तानि, प्रबन्धतो वर्जयेन् मतिमानः ॥१४॥ १४/४ खेदे दााभावात्, न प्रणिधानमिह सुन्दरं भवति ।
एतच्चेह प्रवरं, कृषिकर्मणि सलिलवज्ज्ञेयम् ॥१५॥