________________
૨૨૬
ષોડશકાદિ સૂક્ત- રત્ન - મંજૂષા ६/५ शास्त्रबहुमानतः खलु, सच्चेष्टातश्च धर्मनिष्पत्तिः ।
परपीडात्यागेन च, विपर्ययात् पापसिद्धिरिव ॥७४॥ ७/१३ आगमतन्त्रः सततं, तद्वद्भक्त्यादिलिङ्गसंसिद्धः ।
चेष्टायां तत्स्मृतिमान्, शस्तः खल्वाशयविशेषः ॥७५॥ १०/३ यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः ।
शेषत्यागेन करोति यच्च, तत् प्रीत्यनुष्ठानम् ॥७६॥ १०/४ गौरवविशेषयोगाद्, बुद्धिमतो यद् विशेषतरयोगम् ।
क्रिययेतरतुल्यमपि, ज्ञेयं तद् भक्त्यनुष्ठानम् ॥७७॥ १०/६ वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु ।
वचनानुष्ठानमिदं, चारित्रवतो नियोगेन ॥७८॥ १०/७ यत्त्वभ्यासातिशयात्, सात्मीभूतमिव चेष्ट्यते सद्भिः ।
तदसङ्गानुष्ठानं, भवति त्वेतत्तदावेधात् ॥७९॥ १०/१० उपकार्यपकारिविपाकवचन-धर्मोत्तरा मता क्षान्तिः ।
आद्यद्वये त्रिभेदा, चरमद्वितये द्विभेदेति ॥४०॥ १०/१४शृण्वन्नपि सिद्धान्तं, विषयपिपासाऽतिरेकतः पापः ।
प्राप्नोति न संवेगं, तदाऽपि यः सोऽचिकित्स्य इति ॥८१॥ १०/१५ नैवंविधस्य शस्तं, मण्डल्युपवेशनप्रदानमपि ।
कुर्वन्नेतद् गुरुरपि, तदधिकदोषोऽवगन्तव्यः ॥८२॥ ११/१ शुश्रूषा चेहाद्यं लिङ्गं, खलु वर्णयन्ति विद्वांसः ।
तदभावेऽपि श्रावणं, असिराऽवनिकूपखननसमम् ॥८३॥ १२/३ यो निरनुबन्धदोषात्, श्राद्धोऽनाभोगवान् वृजिनभीरुः ।
गुरुभक्तो ग्रहरहितः, सोऽपि ज्ञान्येव तत्फलतः ॥८४॥