________________
ષોડશક
३/११ सिद्धेश्चोत्तरकार्यं विनियोगो ऽवन्ध्यमेतदेतस्मिन् ।
सत्यन्वयसम्पत्त्या, सुन्दरमिति तत्परं यावत् ॥६३॥ ३ / १२ आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः । भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा ॥६४॥ ४/२ औदार्यं दाक्षिण्यं, पापजुगुप्साऽथ निर्मलो बोधः । लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥६५॥ ४ / ९ तन्नास्य विषयतृष्णा, प्रभवत्युच्चैर्न दृष्टिसंमोहः ।
अरुचिर्न धर्मपथ्ये, न च पापा क्रोधकण्डूतिः ॥ ६६ ॥ ६/६ तत्रासन्नोऽपि जनो ऽसम्बन्ध्यपि दानमानसत्कारैः ।
कुशलाशयवान् कार्यो, नियमाद् बोध्यङ्गमयमस्य ॥६७॥ ६/१६ यतनातो न च हिंसा, यस्मादेषैव तन्निवृत्तिफला ।
तदधिकनिवृत्तिभावाद्, विहितमतोऽदुष्टमेतद् ॥६८॥ ९/६ पिण्डक्रियागुणगतैः, गम्भीरैर्विविधवर्णसंयुक्तैः ।
आशयविशुद्धिजनकैः, संवेगपरायणैः पुण्यैः ॥६९॥ ९/७ पापनिवेदनगर्भैः, प्रणिधानपुरस्सरैर्विचित्रार्थैः ।
अस्खलितादिगुणयुतैः, स्तोत्रैश्च महामतिग्रथितैः ॥७०॥ ५/१३ न्यायात्तं स्वल्पमपि हि, भृत्यानुपरोधतो महादानम् । दीनतपस्व्यादौ, गुर्वाज्ञया दानमन्यत्तु ॥ ७१ ॥ ५/१४ देवगुणपरिज्ञानात्, तद्भावानुगतमुत्तमं विधिना ।
स्याद् आदरादियुक्तं यत् तद् देवार्चनमिष्टम् ॥ ७२ ॥ ५/१५ एवं गुरुसेवादि च, काले सद्योगविघ्नवर्जनया । इत्यादिकृत्यकरणं, लोकोत्तरतत्त्वसंप्राप्तिः ॥७३॥
૨૨૫