________________
૨૪
ષોડશકાદિ સૂક્ત- રત્ન-મંજૂષા २/२ बाह्याचरणप्रधाना, कर्तव्या देशनेह बालस्य ।
स्वयमपि च तदाचारः, तदग्रतो नियमतः सेव्यः ॥५२॥ २/७ मध्यमबुद्धेस्त्वीर्यासमिति-प्रभृति त्रिकोटिपरिशुद्धम् ।
आद्यन्तमध्ययोगः, हितदं खलु साधुसद्वृत्तम् ॥५३॥ २/८ अष्टौ साधुभिरनिशं, मातर इव मातरः प्रवचनस्य ।
नियमेन न मोक्तव्याः, परमं कल्याणमिच्छद्भिः ॥५४॥ २/९ एतत्सचिवस्य सदा, साधोनियमान्न भवभयं भवन्ति ।
भवति च हितमत्यन्तं, फलदं विधिनाऽऽगमग्रहणम् ॥५५॥ २/१० गुरुपारतन्त्र्यमेव च, तद्बहुमानात् सदाशयानुगतम् ।
परमगुरुप्राप्तेरिह बीजं, तस्माच्च मोक्ष इति ॥५६॥ २/१२ वचनाराधनया खलु धर्मः, तद्वाधया त्वधर्म इति ।
इदमत्र धर्मगुह्यं, सर्वस्वं चैतदेवास्य ॥५७॥ २/१४ अस्मिन् हृदयस्थे सति, हृदयस्थस्तत्त्वतो मुनीन्द्र इति ।
हृदयस्थिते च तस्मिन्, नियमात् सर्वार्थसंसिद्धिः ॥५८॥ ३/७ प्रणिधानं तत्समये स्थितिमत्, तदधः कृपाऽनुगं चैव ।
निरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारं च ॥५९॥ ३/८ तत्रैव तु प्रवृत्तिः, शुभसारोपायसङ्गताऽत्यन्तम् ।
अधिकृतयत्नातिशयाद्, औत्सुक्यविवर्जिता चैव ॥६०॥ विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः ।
मार्ग इह कण्टकज्वर-मोहजयसमः प्रवृत्तिफलः ॥६१॥ ३/१० सिद्धिस्तत्तद्धर्मस्थानावाप्तिः, इह तात्त्विकी ज्ञेया ।
अधिके विनयादियुता, हीने च दयादिगुणसारा ॥६२॥