________________
અષ્ટકપ્રકરણ/ ષોડશક
૨૨૩
२१/१ सूक्ष्मबुद्धया सदा ज्ञेयो, धर्मो धर्माणिभिर्नरैः ।
___ अन्यथा धर्मबुद्धयैव, तद्विघातः प्रसज्यते ॥४२॥ २१/२ गृहीत्वा ग्लानभैषज्य-प्रदानाभिग्रहं यथा ।
तदप्राप्तौ तदन्तेऽस्य, शोकं समुपगच्छतः ॥४३॥ २२/१ भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी ।
प्रज्ञापनाप्रियाऽत्यर्थं, न पुनः स्वाग्रहात्मिका ॥४४॥ २२/४ न मोहोद्रिक्तताऽभावे, स्वाग्रहो जायते क्वचित् ।
गुणवत्पारतन्त्र्यं हि, तदनुत्कर्षसाधकम् ॥४५॥ २२/५ अत एवागमज्ञोऽपि, दीक्षादानादिषु ध्रुवम् ।
क्षमाश्रमणहस्तेनेत्याह सर्वसु कर्मसु ॥४६॥ २३/१ यः शासनस्य मालिन्ये-ऽनाभोगेनापि वर्तते ।
स तन्मिथ्यात्वहेतुत्वाद्, अन्येषां प्राणिनां ध्रुवम् ॥४७॥ २३/२ बध्नात्यपि तदेवालं, परं संसारकारणम् ।
विपाकदारुणं घोरं, सर्वानर्थविवर्धनम् ॥४८॥ २३/३ यस्तून्नतौ यथाशक्ति, सोऽपि सम्यक्त्वहेतुताम् ।
अन्येषां प्रतिपद्येह, तदेवाप्नोत्यनुत्तरम् ॥४९॥ २४/८ दया भूतेषु वैराग्यं, विधिवद् गुरुपूजनम् ।
विशुद्धा शीलवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥५०॥
~~ हरिभद्रसूरिकृतं षोडशकप्रकरणम् ~~ १/१४ यद्भाषितं मुनीन्द्रैः, पापं खलु देशना परस्थाने ।
उन्मार्गनयनमेतद्, भवगहने दारुणविपाकम् ॥५१॥