________________
૨૨૨
१०/६ भूयांसो नामिनो बद्धा बाह्येनेच्छादिना हामी । आत्मानस्तद्वशात् कष्टं भवे तिष्ठन्ति दारुणे ॥३१ ॥
1
१० / ७ एवं विज्ञाय तत्त्याग-विधिस्त्यागश्च सर्वथा । वैराग्यमाहुः सज्ज्ञानसङ्गतं तत्त्वदर्शिनः ॥३२॥
११/१ दुःखात्मकं तपः केचित् मन्यन्ते तन्न युक्तिमत् । कर्मोदयस्वरूपत्वाद्, बलीवर्दादिदुःखवत् ॥३३॥
षोडशाहि सूडत - रत्न मंभूषा
११ / ५ मनइन्द्रिययोगानां अहानिचोदिता जिनैः ।
7
यतोऽत्र तत् कथं त्वस्य युक्ता स्याद् दुःखरूपता ? ॥३४॥ ११ / ६ याऽपि चानशनादिभ्यः कायपीडा मनाक् क्वचित् । व्याधिक्रिया समा साऽपि नेहसिद्धयाउन वाधनी ॥३५॥ ११/७ दृष्टा चेष्टार्थसंसिद्धी, कायपीडा ह्यदुःखदाः । रत्नादिवणिगादिनां तद्वदत्रापि भाव्यताम् ॥३६॥
"
"
११ / ८ विशिष्टज्ञानसंवेग- - शमसारमतस्तपः ।
क्षायोपशमिकं ज्ञेयं, अव्याबाधसुखात्मकम् ॥३७॥ ५/२ यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य सर्वसम्पत्करी मता ॥३८॥
1
५/३ वृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाऽटतः ।
गृहिदेहोपकाराय, विहितेति शुभाशयात् ॥३९॥
६/६ विभिन्नं देयमाश्रित्य स्वभोग्याद् यत्र वस्तुनि । सङ्कल्पनं क्रियाकाले, तद् दुष्टं विषयोऽनयोः ॥४०॥ ६/७ स्वोचिते तु यदारम्भे, तथासङ्कल्पनं क्वचित् ।
न दुष्टं शुभभावत्वात्, तच्छुद्धापरयोगवत् ॥४१॥
"