________________
અષ્ટક પ્રકરણ
૨૨૧
८/१ अपेक्षा चाविधिश्चैवापरिणामस्तथैव च ।
प्रत्याख्यानस्य विघ्नास्तु, वीर्याभावस्तथाऽपरः ॥२०॥ ८/८ जिनोक्तमिति सद्भक्त्या, ग्रहणे द्रव्यतोऽप्यदः ।
बाध्यमानं भवेद् भाव-प्रत्याख्यानस्य कारणं ॥२१॥ ९/२ विषकण्टकरत्नादौ, बालादिप्रतिभासवत् ।
विषयप्रतिभासं स्यात्, तद्धेयत्वाद्यवेदकम् ॥२२॥ ९/३ निरपेक्षप्रवृत्त्यादि-लिङ्गमेतदुदाहृतम् ।
अज्ञानावरणापायं, महाऽपायनिबन्धनम् ॥२३॥ ९/४ पातादिपरतन्त्रस्य, तद्दोषादावसंशयम् ।
अनर्थाद्याप्तियुक्तं, चात्मपरिणतिमन्मतम् ॥२४॥ ९/५ तथाविधप्रवृत्त्यादि-व्यङ्ग्यं सदनुबन्धि च ।
ज्ञानावरणहासोत्थं, प्रायो वैराग्यकारणम् ॥२५॥ ९/६ स्वस्थवृत्तेः प्रशान्तस्य, तद्धेयत्वादिनिश्चयम् ।
तत्त्वसंवेदनं सम्यक्, यथाशक्तिफलप्रदम् ॥२६॥ ९/७ न्याय्यादौ शुद्धवृत्त्यादि-गम्यमेतत् प्रकीर्तितम् ।
सज्ज्ञानावरणापायं, महोदयनिबन्धनम् ॥२७॥ २४/७ चित्तरलमसक्लिष्ट, आन्तरं धनमुच्यते ।
यस्य तन्मुषितं दोषैः, तस्य शिष्टा विपत्तयः ॥२८॥ १०/२ इष्टेतरवियोगादि-निमित्तं प्रायशो हि यत् ।
यथाशक्त्यपि हेयादावप्रवृत्त्यादिवर्जितम् ॥२९॥ १०/३ उद्वेगकृद्विषादाढ्यं, आत्मघातादिकारणम् ।
आर्तध्यानं ह्यदो मुख्यं, वैराग्यं लोकतो मतम् ॥३०॥