________________
૨૨૦
ષોડશકાદિ સૂક્ત- રત્ન - મંજૂષા बाहुभ्यां दुस्तरो यद्वत्, क्रूरनको महोदधिः । यतित्वं दुष्करं तद्वत्, इत्याहुस्तत्त्ववेदिनः ॥१०॥ भवस्वरूपविज्ञानात्, तद्विरागाच्च तत्त्वतः । अपवर्गानुरागाच्च, स्यादेतन्नान्यथा क्वचित् ॥११॥ उक्तं मासादिपर्याय-वृद्धया द्वादशभिः परम् । तेजः प्राप्नोति चारित्री, सर्वदेवेभ्य उत्तमम् ॥१२॥
- हरिभद्रसूरिकृतः शास्त्रवार्तासमुच्चयः - ३ दुःखं पापात् सुखं धर्मात्, सर्वशास्त्रेषु संस्थितिः ।
न कर्त्तव्यमतः पापं, कर्त्तव्यो धर्मसञ्चयः ॥१३॥ उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत्, साधुसेवाफलं महत् ॥१४॥ मैत्री भावयतो नित्यं, शुभो भावः प्रजायते । ततो भावोदकाज्जन्तोः, द्वेषाग्निरुपशाम्यति ॥१५॥ अशेषदोषजननी, निःशेषगुणघातिनी । आत्मीयग्रहमोक्षेण, तृष्णाऽपि विनिवर्तते ॥१६॥ अनित्यः प्रियसंयोगः, इहेाशोकवत्सलः । अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् ॥१७॥ अनित्याः सम्पदस्तीव्र-क्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह, सर्वभावनिबन्धनम् ॥१८॥
- हरिभद्रसूरिकृतं अष्टकप्रकरणम् - ४/६ धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी ।
प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१९॥