________________
ધર્મબિંદુ
૨૧૯
ષોડશકાદિ સૂક્ત - રત્ન-મંજૂષા ~ हरिभद्रसूरिकृतं धर्मबिन्दुप्रकरणम् ~~ धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥१॥ धर्मश्चिन्तामणिः श्रेष्ठो, धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो, धर्म एवामृतं परम् ॥२॥ यत् किञ्चन शुभं लोके, स्थानं तत् सर्वमेव हि । अनुबन्धगुणोपेतं, धर्मादाप्नोति मानवः ॥३॥ वचनाद् यदनुष्ठानं, अविरुद्धाद् यथोदितम् । मैत्र्यादिभावसंयुक्तं, तद्धर्म इति कीर्त्यते ॥४॥ दुर्लभं प्राप्य मानुष्यं, विधेयं हितमात्मना । करोत्यकाण्ड एवेह, मृत्युः सर्वं न किञ्चन ॥५॥ बीजनाशे यथाऽभूमौ, प्ररोहो वेह निष्फलः । तथा सद्धर्मबीजानां, अपात्रेषु विदुर्बुधाः ॥६॥ न साधयति यः सम्यग्, अज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात् कथं मूढः, स महत् साधयिष्यति ? ॥७॥ अबोधेऽपि फलं प्रोक्तं, श्रोतृणां मुनिसत्तमैः । कथकस्य विधानेन, नियमाच्छुद्धचेतसः ॥८॥ नोपकारो जगत्यस्मिन्, तादृशो विद्यते क्वचित् । यादृशी दुःखविच्छेदाद्, देहिनां धर्मदेशना ॥९॥