________________
૨૧૮
અધ્યાત્મ ઉપનિષદાદિ સૂક્ત - રત્ન - મંજૂષા
३०३ स्नेहालिङ्गित्तवपुषो, रेणुभिराश्लिष्यते यथा गात्रम् । रागद्वेषास्तमतेः, कर्मस्कन्धैस्तथा श्लेषः ॥ ९९ ॥ ३१० मायोदकं यथावत् पश्यन् यात्येव तेन मार्गेण । पश्यन्नलीकरूपान्, भोगानुल्लङ्घयत्येवम् ॥१००॥ ३९१ तांस्तत्त्वेन तु जानन्, मग्नो भावेन मोहजम्बाले ।
उभयभ्रष्टः स्पष्टं, निरन्तरं खेदमनुभवति ॥ १०१ ॥ १७५ सूक्ष्मोऽस्त्यशेषविषयः, सावद्ये यत्र कर्मणि निषेधः ।
रागादिकुट्टनसहं, ध्यानं च स नाम कषशुद्धः ॥ १०२ ॥ १७६ नो कार्या परपीडा, यथाऽत्र मनसा गिरा च वपुषा च । ध्यातव्यं च नितान्तं रागादिविपक्षजालं तु ॥ १०३ ॥
१८३ एतेन विधिनिषेधी, वाध्येते यत्र नैव नियमेन ।
सम्भवतः परिशुद्ध, ब्रुवते तं छेदपरिशुद्धम् ॥१०४॥
१८४ समितिसु पञ्चसु च तथा, तिसृषु च गुप्तिषु सदाऽप्रमत्तेन । विधिना यतिना कार्य कर्तव्यं कायिकाद्यापि हि ॥ १०५ ॥ १८५ अपि च प्रमादजनकाः, त्याज्याः वासादयः परम्परया । मधुकरवृत्त्या भिक्षालब्ध्याऽऽत्मा पालनीयश्च ॥ १०६ ॥ १९१ जीवादिभाववादो, दृष्टेष्टाभ्यां न यः खलु विरुद्धः ।
तापविशुद्धः सोऽन्यो, द्वाभ्यामपि नैव शुद्धः स्यात् ॥१०७॥ १९२ इह सदसदादिरूपे, जीवे बन्धादि युज्यते सर्वम् ।
नानीदृशे तु किञ्चित्, वरश्रुतं शुद्धमित्थं तत् ॥१०८॥
"