________________
માર્ગપરિશુદ્ધિ
૨૧૭ २५३ नाशीलः शुद्धतपः, कर्तुं सहते न मोहपरतन्त्रः ।
शक्त्या तपोऽप्यकुर्वन्, भावयति सुभावनाजालम् ॥८८॥ ११९ सद्योगवृद्धिजननं, सद्ध्यानसमन्वितं त्वनशनादि ।
कुर्यात् तपोऽपि यस्माद्, अपैति चितमांसशोणितता ॥८९॥ येन क्षुदादयः खलु, कर्मक्षयकारणानि भावयतेः ।
ज्वरिणामिह बाधन्ते, कटुकौषधपानमिव न मनः ॥१०॥ १५९ असकृदपि क्षाराद्यैः, प्राप्तैरप्राप्तवेधपरिणामः ।
वेधं शुद्धि च यथा, जात्यमणिर्याति तैरेव ॥११॥ १६० अकलितवीर्योल्लासः, तथा श्रुतादप्यनन्तशः प्राप्तात् ।
लभते वीर्योल्लासं, भव्यः शुद्धिं च तत एव ॥१२॥ १७२ द्रव्याख्यं सम्यक्त्वं, जिनवचनं तत्त्वमिति रुचिः परमा ।
भूतार्थबोधशक्त्या, परिणमते भावसम्यक्त्वम् ॥१३॥ १७३ अज्ञातगुणे सम्यग्, या श्रद्धा भवति सुन्दरे रत्ने ।
हन्त ततोऽनन्तगुणा, विज्ञातगुणे पुनस्तस्मिन् ॥१४॥ १३४ अविनिश्चितो हि न भवेद्, अपवादोत्सर्गविषयवित् सम्यक् ।
अविषयदेशनया च, स्वपरविनाशी स नियमेन ॥१५॥ २९१ निरुपक्रमकर्मवशात्, नित्यं मार्गकदत्तदृष्टिरपि ।
चरणकरणे त्वशुद्धे, शुद्ध मार्ग प्ररूपयतु ॥१६॥ २९२ दर्शनशास्त्राभ्यासाद्, हीनोऽपि पथप्रभावनोद्युक्तः ।
यल्लभते फलमतुलं, न तत् क्रियामात्रमग्नमतिः ॥१७॥ २२१ शुद्धतरपरिणामी, निश्चयतो मोक्षबन्धनोपायौ ।
अत्याज्यसन्निधानाः, परपरिणामा उदासीनाः ॥१८॥