________________
૨૧૬
અધ્યાત્મ ઉપનિષદાદિ સૂક્ત - રત્ન - મંજૂષા
११३ इभ्यो नृपमिव शिष्यः, सेवेत गुरुं ततो विनयवृद्ध्या । सद्दर्शनानुरागादपि, शुद्धिर्गौतमस्येव ॥७७॥ ११४ गुरुसेवाऽभ्यासवतां शुभानुबन्धो भवे परत्रापि । तत्परिवारो गच्छ:, तद्वासे निर्जरा विपुला ॥७८॥ २५६ व्यूढो गणधरशब्दो, गौतममुख्यैः स्वयं पुरुषसिंहैः । यस्तमपात्रे धत्ते, जानानोऽसौ महापापः ॥ ७९ ॥ २६० पददानेऽयोग्यानां, गुरुतरगुणमलनया परित्यक्ताः ।
शिष्या भवन्ति नियमाद्, आज्ञाकोपेन चात्माऽपि ॥८०॥ २८१ युष्माभिरपि च नायं, मोक्तव्यो भववने महागहने ।
सिद्धिपुरसार्थवाहः, क्षणमपि नित्यं तु संसेव्यः ॥८१॥ २८२ आज्ञाकोपोऽपरथा, स्यादतिदुःखप्रदस्तदेतस्य ।
निर्भत्सितैरपि पदौ, न त्याज्यौ कुलवधूज्ञातात् ॥८२॥ गुणवानेव हि शिष्यो, लोकद्वयहितकरो गुरोर्भवति । इतरस्त्वार्त्तध्यानं, श्रद्धाऽभावात् प्रवर्द्धयति ॥८३॥ उत्पन्नमार्यदेशे, जातिकुलविशुद्धमल्पकर्माणम् । कृशतरकषायहासं, कृतज्ञमविरुद्धकार्यकरम् ॥८४॥ मरणनिमित्तं जन्म, श्रीश्चपला दुर्लभं च मनुजत्वम् । न परनिमित्तं निजसुखं, इति चिन्तोत्पन्नवैराग्यम् ॥८२॥ नानीदृशस्य हृदये, रमते जिनगीर्भवाभिनन्दितया । कुङ्कुमरागो वाससि, मलिने न कदाऽपि परिणमते ॥८६॥ २५२ यः सद् बाह्यमनित्यं, दानं दत्ते न शक्तिमान् लुब्धः । दुर्द्धरतरं कथमयं बिभर्ति शीलव्रतं क्लीबः ? ॥८७॥
"
२६
२२
२३
२५