________________
માર્ગપરિશુદ્ધિ
૨૧૫
-~- वाचकयशोविजयकृतं मार्गपरिशुद्धिप्रकरणम् - ऐन्द्रश्रेणिनताय, प्रथमाननयप्रमाणरूपाय । भूतार्थभासनाय, त्रिजगद्गुरुशासनाय नमः ॥६७॥ निश्चयतो निश्चयभाग, मत्त इव भिनत्ति यश्चरणमुद्राम् । तस्य पदे व्यवहारो, वज्रमयी शृङ्खला देया ॥६८॥ अव्यवहारिणि जीवे, निश्चयनयविषयसाधनं नास्ति ।
ऊपरदेशे कथमपि, न भवति खलु शस्यनिष्पत्तिः ॥६९॥ ११ व्यवहारप्रतिभासो, दुर्नयकृबालिशस्य भवबीजम् ।
व्यवहाराचरणं पुनः, अनभिनिविष्टस्य शिवबीजम् ॥७०॥ व्यवहारवतस्तनुरपि, बोधः सितपक्षचन्द्र इव वृद्धिम् । इतरस्य याति हानि, पृथुरपि शितिपक्षचन्द्र इव ॥७१॥ अवगतसमयोपनिषद्-गुरुकुलवासः सतां सदा सेव्यः । आचारादौ निगदितमाद्यं, व्यवहारबीजमिदम् ॥७२॥ अस्मादेव हि चरणं, सिद्ध्यति मार्गानुसारिभावेन । गुरुकुलवासत्यागे, नेयं भणिताऽकृतज्ञस्य ॥७३॥ सामान्यधर्मतः खलु, कृतज्ञभावाद् विशिष्यते चरणं । सामान्यविरहिणि पुनः, न विशेषस्य स्थितिर्दृष्टा ॥७४॥ तस्माद् गुरुकुलवासः, श्रयणीयश्चरणधनविवृद्धिकृते ।
गुरुरपि गुणवानेव, श्लाघ्यत्वमुपैति विमलधियाम् ॥७५॥ १२ गुरुपारतन्त्र्यस्यातो, माषतुषादेः पुमर्थसंसिद्धिः ।
स्फटिक इव पुष्परूपं, तत्र प्रतिफलति गुरुबोधः ॥७६॥