________________
૧૪
અધ્યાત્મ ઉપનિષદાદિ સૂક્ત- રત્ન- મંજૂષા
१/२४१ निरञ्जनाः शङ्खवदाश्रयन्तोऽस्खलद्गतित्वं भुवि जीववच्च ।
वियद्वदालम्बनविप्रमुक्ताः, समीरवच्च प्रतिबन्धशून्याः ॥५७॥ १/२४२ शरत्सरोनीरविशुद्धचित्ता, लेपोज्झिताः पुष्करपत्रवच्च ।
गुप्तेन्द्रियाः कूर्मवदेकभावं, उपागताः खड्गिविषाणवच्च ॥५८॥ १/२४३ सदा विहङ्गा इव विप्रमुक्ता, भारण्डपक्षीन्द्रवदप्रमत्ताः ।
शौण्डीर्यभाजो गजवच्च जातस्थामप्रकर्षा वृषभा इवोच्चैः ।।५९॥ १/२४४ दुर्द्धर्षतां सिंहवदब्धिवच्च, गम्भीरतां मन्दरवत् स्थिरत्वम् ।
प्राप्ताः सितांशूज्ज्वलसौम्यलेश्याः, सूर्या इवात्यद्भुतदीप्तिमन्तः ॥६०॥ १/२४५ सुजातरूपास्तपनीयवच्च, भारक्षमा एव वसुन्धरावत् ।
ज्वलत्त्विषो वह्निवदुल्लसन्ति, समाधिसाम्योपगता मुनीन्द्राः ॥१॥ १/२४६ गजाश्च सिंहा गरुडाश्च नागाः, व्याघ्राश्च गावश्च सुरासुराश्च ।
तिष्ठन्ति पार्श्वे मिलिताः समाधिसाम्यस्पृशामुज्झितनित्यवैराः ॥६२॥ १/१५५ समाधिभाजोऽपि विपद्दशायां, न यान्ति धीराः करुणाऽऽस्पदत्वम् ।
जात्यस्य जायेत विवर्णभावः, किमग्नितापादपि काञ्चनस्य ? ॥६३॥ १/१६८ यन्नैव सूत्रे विहितं न चापि, निवारितं किन्तु चिरप्ररूढम् ।
समाहिता मार्गभिदाभियैव, तदप्यनालोच्य न दूषयन्ति ॥६४॥ १/१७४कुत्सां मलक्लिन्नकलेवरेषु, कुर्वन्ति नो शुद्धसमाधिभाजः ।
व्रजन्ति नोद्वेगमनिष्टभावात्, निवर्तयन्त्यक्षि न चाप्रशस्तात् ॥६५॥ १/२२९ समाहितस्वान्तमहात्मनां स्यात्,
सुखेऽप्यहो वैषयिके जिहासा। को वा विपश्चिन्ननु भोक्तुमिच्छेत्, मिष्टान्नमप्युग्रविषेण युक्तम् ? ॥६६॥