________________
વૈરાગ્યક૫લતા
૨૧૩
१/१५४ उग्रे विहारे च सुदुष्करायां, भिक्षाविशुद्धौ च तपस्यसो ।
समाधिलाभव्यवसायहेतोः, क्व वैमनस्यं मुनिपुङ्गवानाम् ? ॥४६॥ १/१४९ इष्टप्रणाशेऽप्यनभीष्टलाभेऽनित्यस्वभावं नियतिञ्च जानन् ।
सन्तापमन्तर्न समाधिवृष्टिविध्यातशोकाग्निरुपैति साधुः ॥४७॥ १/१६३ रणाङ्गणे शूरपुरस्सरास्तु, पश्यन्ति पृष्ठं न हि मृत्युभीताः ।
समाहिताः प्रव्रजितास्तथैव, वाञ्छन्ति नोत्प्रव्रजितुं कदाचित् ॥४८॥ १/१७५ न मूत्रविष्ठापिठरीषु रागं, बध्नन्ति कान्तासु समाधिशान्ताः ।
अनङ्गकीटालयतत्प्रसङ्गं, अब्रह्मदौर्गन्ध्यभियास्त्यजन्ति ॥४९॥ १/२२८ रम्यं सुखं यद्विषयोपनीतं, नरेन्द्रचक्रित्रिदशाधिपानाम् ।
समाहितास्तज्ज्वलदिन्द्रियाग्नि-ज्वालाघृताहुत्युपमं विदन्ति ॥५०॥ १/२४८ जना मुदं यान्ति समाधिसाम्य-जुषां मुनीनां सुखमेव दृष्ट्वा ।
चन्द्रेक्षणादेव चकोरबालाः, पीतामृतोद्गारपरा भवन्ति ॥५१॥ १/२५१ अपेक्षितान्तप्रतिपक्षपक्षैः, कर्माणि बद्धान्यपि कर्मलक्षैः ।
प्रभा तमांसीव रवेः क्षणेन, समाधिसिद्धा समता क्षिणोति ॥५२॥ १/२५२ संसारिणो नैव निजं स्वरूपं, पश्यन्ति मोहावृतबोधनेत्राः ।
समाधिसिद्धा समतैव तेषां, दिव्यौषधं दोषहरं प्रसिद्धम् ॥५३॥ १/२५३ बबन्ध पापं नरकैकवेद्यं, प्रसन्नचन्द्रो मनसाऽप्रशान्तः ।
तत्कालमेव प्रशमे तु लब्धे, समाधिभृत् केवलमाससाद ॥५४॥ १/२५४ षट्खण्डसाम्राज्यभुजोऽपि वश्या, यत् केवलश्रीर्भरतस्य जज्ञे ।
न याति पारं वचसोऽनुपाधि-समाधिसाम्यस्य विजृम्भितं तत् ॥५५॥ १/२५५ अप्राप्तधर्माऽपि पुराऽऽदिमाईन्-माता शिवं यद् भगवत्यवाप ।
समाधिसिद्धा समतैव हेतुः, तत्रापि बाह्यस्तु न कोऽपि योगः ॥५६॥