________________
૨૧૨
અધ્યાત્મ ઉપનિષદાદિ સૂક્ત- રત્ન- મંજૂષા
१/१३० विना समाधि परिशीलितेन,
क्रियाकलापेन न कर्मभङ्गः । शक्तिं विना किं समुपाश्रितेन,
दुर्गेण राज्ञो द्विषतां जयः स्यात् ? ॥३८॥ १/१३६ अन्तः समाधेः सुखमाकलय्य, बाह्ये सुखे नो रतिमेति योगी।
अटत्यटव्यां क इवार्थलुब्धो, गृहे समुत्सर्पति कल्पवृक्षे ? ॥३९॥ १/१४७ इतस्ततो भ्राम्यति चित्तपक्षी, वितत्य यो रत्यरतिस्वपक्षौ ।
स्वच्छन्दतावारणहेतुरस्य, समाधिसत्यञ्जरयन्त्रणव ॥४०॥ १/१५६ असह्यया वेदनयाऽपि धीरा, रुदन्ति नात्यन्तसमाधिशुद्धाः ।
कल्पान्तकालाग्निमहार्चिषाऽपि, नैव द्रवीभावमुपैति मेरुः ॥४१॥ १/२३३ज्ञानी तपस्वी परमक्रियावान्,
सम्यक्त्ववानप्युपशान्तिहीनः । प्राप्नोति तं नैव गुणं कदापि,
समाहितात्मा लभते शमी यत् ॥४२॥ १/२३५ नूनं परोक्षं सुरसमसौख्यं, मोक्षस्य चात्यन्तपरोक्षमेव ।
प्रत्यक्षमेकं समतासुखं तु, समाधिसिद्धानुभवोदयानाम् ॥४३॥ १/१३२न दोषदर्शिष्वपि रोषपोषो, गुणस्तुतावप्यवलिप्तता नो ।
न दम्भसंरम्भविधेर्लवोऽपि, न लोभसंक्षोभजविप्लवोऽपि ॥४४॥ १/१४४लाभेऽप्यलाभेऽपि सुखे च दुःखे,
ये जीवितव्ये मरणे च तुल्याः । रत्याऽप्यरत्याऽप्यनिरस्तभावाः, समाधिसिद्धा मुनयस्त एव ॥४५॥