________________
૨૨૮
ષોડશકાદિ સૂક્ત- રત્ન-મંજૂષા
१४/५ उद्वेगे विद्वेषाद्, विष्टिसमं करणमस्य पापेन ।
योगिकुलजन्मबाधकं, अलमेतद् तद्विदामिष्टम् ॥१६॥ १४/६ क्षेपेऽपि चाप्रबन्धाद्, इष्टफलसमृद्धये न जात्वेतत् ।
नासकृदुत्पाटनतः, शालिरपि फलावहः पुंसः ॥१७॥ १४/७ उत्थाने निर्वेदात्, करणमकरणोदयं सदैवास्य ।
अत्यागत्यागोचितं, एतत्तु स्वसमयेऽपि मतम् ॥९८॥ १४/८ भ्रान्तौ विभ्रमयोगात्, न हि संस्कारः कृतेतरादिगतः ।
तदभावे तत्करणं, प्रक्रान्तविरोध्यनिष्टफलम् ॥१९॥ १४/९ अन्यमुदि तत्र रागात्, तदनादरताऽर्थतो महाऽपाया।
सर्वानर्थनिमित्तं, मुद्विषयवृष्ट्यङ्गाराभा ॥१०॥ १४/१०रुजि निजजात्युच्छेदात्, करणमपि हि नेष्टसिद्धये नियमात् ।
अस्येत्यननुष्ठानं, तेनैतद् वन्ध्यफलमेव ॥१०१॥ १४/११ आसङ्गेऽप्यविधानाद्, असङ्गसक्त्युचितमित्यफलमेतत् ।
भवतीष्टफलमुच्चैः, तदप्यसङ्गं यतः परमम् ॥१०२॥ ११/७ वाक्यार्थमात्रविषयं, कोष्ठकगतबीजसंनिभं ज्ञानम् ।
श्रुतमयमिह विज्ञेयं, मिथ्याऽभिनिवेशरहितमलम् ॥१०३॥ ११/८ यत्तु महावाक्यार्थजं, अतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् ।
उदक इव तैलबिन्दुः, विसपि चिन्तामयं तत् स्यात् ॥१०४॥ ११/९ ऐदम्पर्यगतं यद्, विध्यादौ यत्नवत् तथैवोच्चैः ।
____एतत्तु भावनामयं, अशुद्धसद्रत्नदीप्तिसमम् ॥१०५॥ १६/१२ ऐदम्पर्य शुद्ध्यति, यत्रासावगमो सुपरिशुद्धः ।
तदभावे तद्देशः, कश्चित् स्यादन्यथाग्रहणात् ॥१०६॥