________________
અધ્યાત્મ ઉપનિષદ
२/९ विषयान् साधकः पूर्वम्, अनिष्टत्वधिया त्यजेत् ।
न त्यजेन्न च गृह्णीयात्, सिद्धो विन्द्यात् स तत्त्वतः ॥१०॥ २/ १२ सर्व परवशं दुःखं, सर्व आत्मवशं सुखं । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥ ११ ॥ २/१३ ज्ञानमग्नस्य यच्छर्म, तद्वक्तुं नैव पार्यते ।
नोपमेयं प्रियाश्लेषः नापि तच्चन्दनद्रवैः ॥१२॥ २ / ४९ आदी शमदमप्रायः गुणैः शिष्यं प्रबोधयेत् ।
पश्चात् सर्वमिदं ब्रह्म, शुद्धस्त्वमिति बोधयेत् ॥१३॥ २ / ५० अज्ञस्वार्थप्रबुद्धस्य, सर्व ब्रह्मेति यो वदेत् । महानरकजालेषु स तेन विनियोजितः ॥१४॥
,
२ / ५१ तेनादौ शोधयेत् चित्तं सद्विकल्पैर्व्रतादिभिः ।
"
यत् कामादिविकाराणां प्रतिसङ्ख्याननाश्यता ॥ १५ ॥ २ / ५६ व्रतादिः शुभसङ्गल्यो, निर्णाश्याशुभवासनाम् । दाह्यं विनेव दहनः स्वयमेव विनश्यति ॥ १६ ॥ ३/१३ क्रियाविरहितं हन्त ! ज्ञानमात्रमनर्थकम् ।
"
गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥१७॥ ३/१५ बाह्यभावं पुरस्कृत्य येऽक्रिया व्यवहारतः ।
वदने कवलक्षेपं, विना ते तृप्तिकाङ्क्षिणः ॥१८॥ ३/३३ इत्थं च ज्ञानिनो ज्ञान नाश्यकर्मक्षचे सति ।
क्रियैकनाश्यकमघ- क्षयार्थं साऽपि युज्यते ॥१९॥ ३/३८ तेन ये क्रियया मुक्ता, ज्ञानमात्राभिमानिनः ।
ते भ्रष्टा ज्ञानकर्माभ्यां नास्तिका नात्र संशयः ॥ २० ॥
"
૨૦૯