________________
૨૦૮
અધ્યાત્મ ઉપનિષદાદિ સૂક્ત- રત્ન- મંજૂષા
અધ્યાત્મ ઉપનિષદાદિ સૂક્ત - રત્ન - મંજૂષા
- वाचकयशोविजयकृतं अध्यात्मोपनिषत्प्रकरणम् - १/१ ऐन्द्रवृन्दनतं नत्वा, वीतरागं स्वयम्भुवम् ।
अध्यात्मोपनिषन्नाम्ना, ग्रन्थोऽस्माभिर्विधीयते ॥१॥ आत्मानमधिकृत्य स्याद्, यः पञ्चाचारचारिमा ।
शब्दयोगार्थनिपुणाः, तदध्यात्मं प्रचक्षते ॥२॥ १/३ रुढ्यर्थनिपुणास्त्वाहुः, चित्तं मैत्र्यादिवासितम् ।
अध्यात्म निर्मलं बाह्य-व्यवहारोपबृंहितम् ॥३॥ १/६ मनोवत्सो युक्तिगवीं, मध्यस्थस्यानुधावति ।
तामाकर्षति पुच्छेन, तुच्छाग्रहः मनःकपिः ॥४॥ १/७ अनर्थायैव नार्थाय, जातिप्रायाश्च युक्तयः ।
हस्ति हन्तीति वचने, प्राप्ताप्राप्तविकल्पवत् ॥५॥ १/११ शुद्धोञ्छाद्यपि शास्त्राज्ञा-निरपेक्षस्य नो हितम् ।
भौतहन्तुर्यथा तस्य, पदस्पर्शनिषेधनम् ॥६॥ १/७२ पुत्रदारादि संसारो, धनिनां मूढचेतसाम् ।
पण्डितानां तु संसारः, शास्त्रमध्यात्मवर्जितम् ॥७॥ २/६ आत्मज्ञाने मुनिर्मग्नः, सर्वं पुद्गलविभ्रमं ।
महेन्द्रजालवद् वेत्ति, नैव तत्रानुरज्यते ॥८॥ २/७ आस्वादिता सुमधुरा, येन ज्ञानरतिः सुधा ।
न लगत्येव तच्चेतो, विषयेषु विषेष्विव ॥९॥