________________
અધ્યાત્મસાર સૂક્ત- રત્ન- મંજૂષા
૨૦૭
१६/३५ आज्ञाऽपायविपाकानां, संस्थानस्य च चिन्तनात् ।
धर्मध्यानोपयुक्तानां, ध्यातव्यं स्याच्चतुर्विधम् ॥१९॥ १६/६५ दुःखेष्वनुद्विग्नमनाः, सुखेषु विगतस्पृहः ।
___ वीतरागभयक्रोधः, स्थितधीर्मुनिरुच्यते ॥१०॥ २०/३८ निन्द्यो न कोऽपि लोके, पापिष्ठेष्वपि भवस्थितिश्चिन्त्या ।
पूज्या गुणगरिमाऽऽढ्या, धार्यो रागो गुणलवेऽपि ॥१०१॥ २०/३९ निश्चित्यागमतत्त्वं, तस्मादुत्सृज्य लोकसंज्ञां च ।
श्रद्धाविवेकसारं, यतितव्यं योगिना नित्यं ॥१०२॥ २०/४० ग्राह्यं हितमपि बालाद्, आलापैर्न दुर्जनस्य द्वेष्यम् ।
त्यक्तव्या च पराशा, पाशा इव सङ्गमा ज्ञेया ॥१०३॥ २०/४१ स्तुत्या स्मयो न कार्यः, कोपोऽपि च निन्दया जनैः कृतया ।
सेव्या धर्माचार्याः, तत्त्वं जिज्ञासनीयं च ॥१०३॥ २०/४२ शौचं स्थैर्यमदम्भो, वैराग्यं चात्मनिग्रहः कार्यः ।
दृश्या भवगतदोषाः, चिन्त्यं देहादिवैरुप्यं ॥१०५॥ २०/४३ भक्तिर्भागवती धार्या, सेव्यो देशः सदा विविक्तश्च ।
स्थातव्यं सम्यक्त्वे, विश्वस्यो न प्रमादरिपुः ॥१०६॥ २०/४४ ध्येयाऽऽत्मबोधनिष्ठा, सर्वत्रैवागमः पुरस्कार्यः ।
त्यक्तव्याः कुविकल्पाः, स्थेयं वृद्धानुवृत्त्या च ॥१०७॥ २०/४५ साक्षात्कार्यं तत्त्वं, चिद्रूपानन्दमेदुरैर्भाव्यम् ।
हितकारी ज्ञानवतां, अनुभववेद्यः प्रकारोऽयम् ॥१०८॥