________________
૨૦૬
અધ્યાત્મસાર સૂક્ત - રત્ન- મંજૂષા
१५/१८ श्रुत्वा पैशाचिकी वार्ता, कुलवध्वाश्च रक्षणम् ।
नित्यं संयमयोगेषु, व्यापृतात्मा भवेद् यतिः ॥८८॥ १५/२४ज्ञानं क्रियाविहीनं न, क्रिया वा ज्ञानवर्जिता ।
गुणप्रधानभावेन, दशाभेदः किलैनयोः ॥८९॥ १५/४६ अर्वाग्दशायां दोषाय, वैषम्ये साम्यदर्शनम् ।
निरपेक्षमुनीनां तु, रागद्वेषक्षयाय तत् ॥१०॥ १६/४ शब्दादीनामनिष्टानां, वियोगासम्प्रयोगयोः ।
चिन्तनं वेदनायाश्च, व्याकुलत्वमुपेयुषः ॥११॥ १६/५ इष्टानां प्रणिधानं च, सम्प्रयोगावियोगयोः ।
निदानचिन्तनं पापं, आर्त्तमित्थं चतुर्विधम् ॥१२॥ १६/७ क्रन्दनं रुदनं प्रोच्चैः, शोचनं परिदेवनं ।
ताडनं लुञ्चनं चेति, लिङ्गान्यस्य विदुर्बुधाः ॥१३॥ १६/८ मोघं निन्दनं निजं कृत्यं, प्रशंसन् परसम्पदः ।
विस्मितः प्रार्थयन्नैताः, प्रसक्तश्चैतदर्जने ॥१४॥ १६/९ प्रमत्तश्चेन्द्रियार्थेषु, गृद्धो धर्मपराङ्मुखः ।
जिनोक्तमपुरस्कुर्वन्, आर्तध्याने प्रवर्तते ॥१५॥ १६/११ निर्दयं वधबन्धादि-चिन्तनं निबिडक्रुधा ।
पिशुनासभ्यमिथ्यावाक्-प्रणिधानं च मायया ॥१६॥ १६/१२ चौर्यधीनिरपेक्षस्य, तीव्रक्रोधाकुलस्य च ।
सर्वाभिशङ्काकलुषं, चित्तं च धनरक्षणे ॥१७॥ १६/१३ एतत् सदोषकरण-कारणानुमतिस्थिति ।
देशविरतिपर्यन्तं, रौद्रध्यानं चतुर्विधं ॥९८॥