________________
અધ્યાત્મસાર સૂક્ત- રત્ન- મંજૂષા
૨૦૫
१०/२७ शास्त्रार्थालोचनं सम्यक्, प्रणिधानं च कर्मणि ।
कालाद्यङ्गाविपर्यासो-ऽमृतानुष्ठानलक्षणम् ॥७७॥ १०/२९ आदरः करणे प्रीतिः, अविघ्नः सम्पदागमः ।
जिज्ञासा तज्ज्ञसेवा च, सदनुष्ठानलक्षणम् ॥७८॥ १०/३१ इच्छा तद्वत्कथा प्रीतिः, युक्ताऽविपरिणामिनी ।
प्रवृत्तिः पालनं सम्यक्, सर्वत्रोपशमान्वितम् ॥७९॥ १०/३२ सत्क्षयोपशमोत्कर्षाद्, अतिचारादिचिन्तया ।
रहितं तु स्थिरं सिद्धिः, परेषामर्थसाधकम् ॥८॥ १०/३४अनुकम्पा च निर्वेदः, संवेगः प्रशमस्तथा ।
एतेषामनुभावाः स्युः, इच्छादीनां यथाक्रमम् ॥८१॥ ११/१० अनिगृहीतमनाः कुविकल्पतो, नरकमृच्छति तन्दुलमत्स्यवत् ।
इयमभक्षणजा तदजीर्णताऽनुपनतार्थविकल्पकदर्थना ॥८२॥ ११/१५ प्रथमतो व्यवहारनयस्थितोऽशुभविकल्पनिवृत्तिपरो भवेत् ।
शुभविकल्पमयव्रतसेवया, हरति कण्टक एव हि कण्टकम् ॥८३॥ १४/८ व्रतानि चीर्णानि तपोऽपि तप्तं, कृता प्रयत्नेन च पिण्डशुद्धिः ।
अभूत् फलं यत्तु न निह्नवानां, असद्ग्रहस्यैव हि सोऽपराधः ॥८४॥ १४/१४ आमे घटे वारि धृतं यथा सद्, विनाशयेत् स्वं च घटं च सद्यः ।
असद्ग्रहग्रस्तमतेस्तथैव, श्रुतात् प्रदत्ताद् उभयोर्विनाशः ॥८५॥ १४/१८ दम्भाय चातुर्यमघाय शास्त्रं, प्रतारणाय प्रतिभापटुत्वम् ।
गर्वाय धीरत्वमहो ! गुणानां, असद्ग्रहस्थे विपरीतसृष्टिः ॥८६॥ १५/११ देहनिर्वाहमात्रार्था, याऽपि भिक्षाऽटनादिका ।
क्रिया सा ज्ञानिनो-ऽसङ्गात् नैव ध्यानविघातिनी ॥८७॥