________________
08
અધ્યાત્મસાર સૂક્ત - રત્ન- મંજૂષા
१०/३ आहारोपधिपूद्धि-प्रभृत्याशंसया कृतम् ।
शीघ्रं सच्चित्तहन्तृत्वाद्, विषानुष्ठानमुच्यते ॥६६॥ १०/५ दिव्यभोगाभिलाषेण कालान्तरपरिक्षयात् ।
स्वादृष्टफलसम्पूर्तेः, गरानुष्ठानमुच्यते ॥६७॥ १०/८ प्रणिधानाद्यभावेन, कर्मानध्यवसायिनः ।
संमूच्छिमप्रवृत्त्याभं, अननुष्ठानमुच्यते ॥६८॥ १०/११शुद्धस्यन्वेषणे तीर्थोच्छेदः स्यादिति वादिनाम् ।
लोकाचारादरश्रद्धा, लोकसंज्ञेति गीयते ॥६९॥ १०/१२ शिक्षितादिपदोपेतम्, अप्यावश्यकमुच्यते ।
द्रव्यतो भावनिर्मुक्तम्, अशुद्धस्य तु का कथा ? ॥७॥ १०/१३ तीर्थोच्छेदभिया हन्ताविशुद्धस्यैव चादरे ।
सूत्रक्रियाविलोपः स्याद्, गतानुगतिकत्वतः ॥७१॥ १०/१४ धर्मोद्यतेन कर्तव्यं, कृतं बहुभिरेव चेत् ।
तदा मिथ्यादृशां धर्मो, न त्याज्य: स्यात् कदाचन ॥७२॥ १०/१६अकामनिर्जराङ्गत्वं, कायक्लेशादिहोदितम् ।
सकामनिर्जरा तु स्यात्, सोपयोगप्रवृत्तितः ॥७३॥ १०/१७ सदनुष्ठानरागेण, तद्धेतुर्मार्गगामिनाम् ।
एतच्च चरमावर्ते-ऽनाभोगादेविना भवेत् ॥७४॥ १०/२५ सहजो भावधर्मो हि, शुद्धश्चन्दनगन्धवत् ।
एतद्गर्भमनुष्ठानं, अमृतं सम्प्रचक्षते ॥७५॥ १०/२६ जैनीमाज्ञां पुरस्कृत्य, प्रवृत्तं चित्तशुद्धितः ।
संवेगगर्भमत्यन्तं, अमृतं तद्विदो विदुः ॥७६॥