________________
અધ્યાત્મસાર સૂક્ત- રત્ન- મંજૂષા
२०3 ६/४३ स्वभावान्नैव चलनं, चिदानन्दमयात् सदा ।
वैराग्यस्य तृतीयस्य, स्मृतेयं लक्षणावली ॥५५॥ ८/२ विषयैः किं परित्यक्तैः ?, जागर्ति ममता यदि ।
त्यागात् कञ्चकमात्रस्य, भुजङ्गो न हि निर्विषः ॥५६॥ ८/१० स्वयं येषां च पोषाय, खिद्यते ममतावशः ।
इहामुत्र च ते न स्युः, त्राणाय शरणाय वा ॥५७॥ ८/११ ममत्वेन बहून् लोकान्, पुष्णात्येकोऽजितैर्धनैः ।
सोढा नरकदुःखानां, तीव्राणामेक एव तु ॥५८॥ ८/१५ मनस्यन्यद्वचस्यन्यत्, क्रियायामन्यदेव च ।
यस्यास्तामपि लोलाक्षी, साध्वीं वेत्ति ममत्ववान् ॥५९॥ ८/३ कष्टेन हि गुणग्रामं, प्रगुणीकुरुते मुनिः ।
ममताराक्षसी सर्वं, भक्षयत्येकलया ॥६०॥ ८/२६ धृतो योगो न ममता, हता न समताऽऽदृता ।
न च जिज्ञासितं तत्त्वं, गतं जन्म निरर्थकम् ॥६१॥ ९/१३ दूरे स्वर्गसुखं मुक्ति-पदवी सा दवीयसी ।
मनःसंनिहितं दृष्ट, स्पष्टं तु समतासुखम् ॥६२॥ ९/१९ क्षणं चेतः समाकृष्य, समता यदि सेव्यते ।
स्यात् तदा सुखमन्यस्य, यद् वक्तुं नैव पार्यते ॥६३॥ ९/२६ सन्त्यज्य समतामेकां, स्याद् यत् कष्टमनुष्ठितम् ।
तदीप्सितकरं नैव, बीजमुप्तमिवोषरे ॥६४॥ ९/२२ प्रचितान्यपि कर्माणि, जन्मनां कोटिकोटिभिः ।
तमांसीव प्रभा भानोः, क्षिणोति समता क्षणात् ॥६५॥