________________
0૨
અધ્યાત્મસાર સૂક્ત - રત્ન- મંજૂષા
६/१४ गुणानुरागवैधुर्यं, उपकारस्य विस्मृतिः ।
अनुबन्धाद्यचिन्ता च, प्रणिधानस्य विच्युतिः ॥४४॥ ६/१५ श्रद्धामृदुत्वमौद्धत्यं, अधैर्यमविवेकिता ।
वैराग्यस्य द्वितीयस्य, स्मृतेयं लक्षणावली ॥४५॥ ६/१६ ज्ञानगर्भं तु वैराग्यं, सम्यक् तत्त्वपरिच्छिदः ।
स्याद्वादिनः शिवोपाय-स्पर्शिनस्तत्त्वदर्शिनः ॥४६॥ ६/३४ तदेकान्तेन यः कश्चिद्, विरक्तस्यापि कुग्रहः ।
शास्त्रार्थबाधनात् सोऽयं, जैनाभासस्य पापकृत् ॥४७॥ ६/३५ उत्सर्गे वाऽपवादे वा, व्यवहारेऽथ निश्चये ।
ज्ञाने कर्मणि वाऽयं चेद्, न तदा ज्ञानगर्भता ॥४८॥ ६/३६ स्वागमेऽन्यागमार्थानां, शतस्येव परार्थ्यके ।
नावतारबुधत्वं चेद्, न तदा ज्ञानगर्भता ॥४९॥ ६/३८ आज्ञयाऽऽगमिकार्थानां, यौक्तिकानां च युक्तितः ।
न स्थाने योजकत्वं चेद्, न तदा ज्ञानगर्भता ॥५०॥ ६/३९ गीतार्थस्यैव वैराग्यं, ज्ञानगर्भं ततः स्थितम् ।
उपचारादगीतस्याप्यभीष्टं तस्य निश्रया ॥५१॥ ६/४० सूक्ष्मेक्षिका च माध्यस्थ्यं, सर्वत्र हितचिन्तनम् ।
क्रियायामादरो भूयान्, धर्मे लोकस्य योजनम् ॥५२॥ ६/४१ चेष्टा परस्य वृत्तान्ते, मूकान्धबधिरोपमा ।
उत्साहः स्वगुणाभ्यासे, दुःस्थस्येव धनार्जने ॥५३॥ ६/४२ मदनोन्मादवमनं, मदसम्मर्दमर्दनम् ।
असूयातन्तुविच्छेदः, समताऽमृतमज्जनम् ॥५४॥