________________
૨૦૧
અધ્યાત્મસાર સૂક્ત- રત્ન- મંજૂષા ५/४ विषयैः क्षीयते कामो, नेन्धनैरिव पावकः ।
प्रत्युत प्रोल्लसच्छक्तिः , भूय एवोपवर्द्धते ॥३३॥ ५/५ सौम्यत्वमिव सिंहानां, पन्नगानामिव क्षमा ।
विषयेषु प्रवृत्तानां, वैराग्यं खलु दुर्लभम् ॥३४॥ ५/६ अकृत्वा विषयत्यागं, यो वैराग्यं दिधीर्षति ।
अपथ्यमपरित्यज्य, स रोगोच्छेदमिच्छति ॥३५॥ ५/२१ बध्यते बाढमासक्तो, यथा श्लेष्मणि मक्षिका ।
शुष्कगोलवदश्लिष्टो, विषयेभ्यो न बध्यते ॥३६॥ ५/२४ विषयाणां ततो बन्ध-जनने नियमोऽस्ति न ।
अज्ञानिनां ततो बन्धो, ज्ञानिनां तु न कर्हिचित् ॥३७॥ ५/२९ बलेन प्रेर्यमाणानि, करणानि वनेभवत् ।
न जातु वशतां यान्ति, प्रत्युतानर्थवृद्धये ॥३८॥ ६/७ गृहेऽन्नमात्रदौर्लभ्यं, लभ्यन्ते मोदका व्रते ।
वैराग्यस्यायमर्थो हि, दुःखगर्भस्य लक्षणम् ॥३९॥ ६/८ कुशास्त्राभ्याससम्भूत-भवनैर्गुण्यदर्शनात् ।
मोहगर्भ तु वैराग्यं, मतं बालतपस्विनाम् ॥४०॥ ६/११ अमीषां प्रशमोऽप्युच्चैः, दोषपोषाय केवलम् ।
अन्तर्निलीनविषम-ज्वरानुद्भवसन्निभः ॥४१॥ ६/१२ कुशास्त्रार्थेषु दक्षत्वं, शास्त्रार्थेषु विपर्ययः ।
स्वच्छन्दता कुतर्कश्च, गुणवत्संस्तवोज्झनम् ॥४२॥ ६/१३ आत्मोत्कर्षः परद्रोहः, कलहो दम्भजीवनम् ।
आस्त्रवाच्छादनं शक्त्युल्लङ्घनेन क्रियाऽऽदरः ॥४३॥