________________
२००
અધ્યાત્મસાર સૂક્ત- રત્ન- મંજૂષા
२/२७ गुर्वाज्ञापारतन्त्र्येण, द्रव्यदीक्षाग्रहादपि ।
वीर्योल्लासक्रमात् प्राप्ता, बहवः परमं पदम् ॥२२॥ ३/३ दम्भेन व्रतमास्थाय, यो वाञ्छति परं पदम् ।
लोहनावं समारुह्य, सोऽब्धेः पारं यियासति ॥२३॥ ३/४ किं व्रतेन तपोभिर्वा ?, दम्भश्चेन्न निराकृतः ।
किमादर्शन किं दीपैः ?, यद्यान्ध्यं न दृशोर्गतम् ॥२४॥ ३/६ सुत्यजं रसलाम्पट्यं, सुत्यजं देहभूषणम् ।
सुत्यजाः कामभोगाद्या, दुस्त्यजं दम्भसेवनम् ॥२५॥ ३/८ असतीनां यथा शीलं, अशीलस्यैव वृद्धये ।
दम्भेनाव्रतवृद्ध्यर्थं, व्रतं वेषभृतां तथा ॥२६॥ ३/१२ अत एव न यो धर्तुं, मूलोत्तरगुणानलम् ।
युक्ता सुश्राद्धता तस्य, न तु दम्भेन जीवनम् ॥२७॥ ३/१४ निर्दम्भस्यावसन्नस्याप्यस्य शुद्धार्थभाषिणः ।
निर्जरां यतना दत्ते, स्वल्पाऽपि गुणरागिणः ॥२८॥ ३/१५ व्रतभारासहत्वं ये, विदन्तोऽप्यात्मनः स्फुटम् ।
दम्भाद् यतित्वमाख्यान्ति, तेषां नामापि पाप्मने ॥२९॥ ३/१६ कुर्वते ये न यतनां, सम्यक् कालोचितामपि ।
तैरहो यतिनाम्नैव, दाम्भिकैर्वञ्च्यते जगत् ॥३०॥ ३/१९ आत्मार्थिना ततस्त्याज्यो, दम्भोऽनर्थनिबन्धनम् ।
शुद्धिः स्यादृजुभूतस्येत्यागमे प्रतिपादितम् ॥३१॥ ३/२० जिनैर्नानुमतं किञ्चिद्, निषिद्धं वा न सर्वथा ।
कार्ये भाव्यमदम्भेनेत्येषाऽऽज्ञा पारमेश्वरी ॥३२॥