________________
અધ્યાત્મસાર સૂક્ત- રત્ન- મંજૂષા
૧૯
१/२२ धनिनां पुत्रदारादि, यथा संसारवृद्धये ।
तथा पाण्डित्यदृप्तानां, शास्त्रमध्यात्मवर्जितम् ॥११॥ २/२ गतमोहाधिकाराणां, आत्मानमधिकृत्य या ।
प्रवर्तते क्रिया शुद्धा, तदध्यात्म जगुर्जिनाः ॥१२॥ २/५ आहारोपधिपूद्धि-गौरवप्रतिबन्धतः ।
भवाभिनन्दी यां कुर्यात्, क्रियां साऽध्यात्मवैरिणी ॥१३॥ २/६ क्षुद्रो लाभरतिर्दीनो, मत्सरी भयवान् शठः ।
अज्ञो भवाभिनन्दी स्यात्, निष्फलारम्भसङ्गतः ॥१४॥ २/१२ ज्ञानं शुद्धं क्रिया शुद्धत्यंशी द्वाविह सङ्गतौ ।
चक्रे महारथस्येव, पक्षाविव पतत्रिणः ॥१५॥ २/१६ अशुद्धाऽपि हि शुद्धायाः, क्रिया हेतुः सदाशयात् ।
तानं रसानुवेधेन, स्वर्णत्वमधिगच्छति ॥१६॥ २/१७ अतो मार्गप्रवेशाय, व्रतं मिथ्यादृशामपि ।
द्रव्यसम्यक्त्वमारोप्य, ददते धीरबुद्धयः ॥१७॥ २/१८ यो बुद्ध्वा भवनैर्गुण्यं, धीरः स्याद् व्रतपालने ।
स योग्यो भावभेदस्तु, दुर्लक्ष्यो नोपयुज्यते ॥१८॥ २/१९ नो चेद् भावापरिज्ञानात्, सिद्ध्यसिद्धिपराहतेः ।
दीक्षाऽदानेन भव्यानां, मार्गोच्छेदः प्रसज्यते ॥१९॥ २/२० अशुद्धानादरेऽभ्यासायोगान्नो दर्शनाद्यपि ।
सिद्धयेन्निसर्गजं मुक्त्वा, तदप्याभ्यासिकं यतः ॥२०॥ २/२१ शुद्धमार्गानुरागेणाशठानां या तु शुद्धता ।
गुणवत्परतन्त्राणां, सा न क्वापि विहन्यते ॥२१॥