________________
૨૧૦
અધ્યાત્મ ઉપનિષદાદિ સૂક્ત - રત્ન - મંજૂષા
३/३९ ज्ञानोत्पत्ति समुद्भाव्य, कामादीनन्यदृष्टितः ।
अपह्नवानैर्लोकेभ्यो, नास्तिकैर्वञ्चितं जगत् ॥२१॥ ३ / ४२ शाने चैव क्रियायां च युगपद् विहितादरः ।
द्रव्यभावविशुद्धः सन् प्रयात्येव परं पदम् ॥२२॥ ३/३७ सम्प्राप्तकेवलज्ञाना, अपि यज्जिनपुङ्गवाः ।
क्रियां योगनिरोधाख्यां कृत्वा सिद्ध्यन्ति नान्यथा ॥ २३ ॥ ४/२ आत्मप्रवृत्तावतिजागरुकः परप्रवृत्ती बधिरान्धमूकः । सदा चिदानन्दपदोपयोगी, लोकोत्तरं साम्यमुपैति योगी ॥ २४ ॥ ४/३ परीषश्च प्रबलोपसर्गयोगाच्चलत्येव न साम्ययुक्तः ।
स्थैर्याद् विपर्यासमुपैति जातु, क्षमा न शैलैर्न च सिन्धुनाथैः ॥ २५ ॥ ४/८ विना समत्वं प्रसरन्ममत्वं, सामायिकं मायिकमेव मन्ये । आवे समानां सति सद्गुणानां शुद्धं हि तच्छुद्धनया विदन्ति ॥ २६ ॥ ४/११ अल्पेऽपि साधुर्न कषायवह्नौ, अह्नाय विश्वासमुपैति भीतः । प्रवर्धमानः स दद् गुणधं, साम्याम्बुपूरैर्यदि नापनीतः ॥२७॥
"
"
४ / १३ साम्यं विना यस्य तपः क्रियादेः,
निष्ठा प्रतिष्ठाऽर्जनमात्र एव । स्वर्धेनुचिन्तामणिकामकुम्भान्, करोत्यसौ काणकपर्दमूल्यान् ॥२८॥
४/१४ ज्ञानी क्रियावान् विरतस्तपस्वी, ध्यानी च मौनी स्थिरदर्शन । साधुर्गुणं तं लभते न जातु, प्राप्नोति यं साम्यसमाधिनिष्ठः ॥२९॥ ४/१५ दुर्योधनेनाभिहतचकोप, न पाण्डवैर्यो न नुतो जहर्ष ।
स्तुमो भदन्तं दमदन्तमन्तः, समत्ववन्तं मुनिसत्तमं तं ॥३०॥