________________
१८४
જ્ઞાનસાર સૂક્ત - રત્ન - મંજૂષા
१९/६ गजाश्चैर्भूपभवनं, विस्मयाय बहिर्दृश: । तत्राश्वेभवनात् कोऽपि भेदस्तत्त्वदृशस्तु न ॥६६॥ १९/७ भस्मना केशलोचेन, वपुर्धृतमलेन वा ।
महान्तं बाह्यदृग् वेत्ति चित्साम्राज्येन तत्त्ववित् ॥६७॥ २०/१ बाह्यदृष्टिप्रचारेषु, मुद्रितेषु महात्मनः ।
"
अन्तरेवावभासन्ते स्फुटाः सर्वाः समृद्धयः ॥ ६८ ॥ २० / २ समाधिर्नन्दनं धैर्यं, दम्भोलिः समता शची । ज्ञान महाविमानं च वासवीरियं मुनेः ॥६९॥ २१ / १ दुःखं प्राप्य न दीनः स्यात् सुखं प्राप्य च विस्मितः । मुनिः कर्मविपाकस्य जानन् परवशं जगत् ॥७०॥ २१/२ येषां भूभङ्गमात्रेण, भज्यन्ते पर्वता अपि ।
तैरहो ! कर्मवैषम्ये, भूपैभिक्षाऽपि नाप्यते ॥७९॥ २१ / ३ जातिचातुर्यहीनो ऽपि कर्मण्यभ्युदयावहे ।
क्षणाद्रोऽपि राजा स्यात्, छत्रच्छन्नदिगन्तरः ॥ ७२ ॥ २१/५ आरूढाः प्रशमश्रेणि, श्रुतकेवलिनोऽपि च ।
भ्राम्यन्तेऽनन्तसंसारं, अहो ! दुष्टेन कर्मणा ॥७३॥ २२ / ६ तैलपात्रधरो यद्, राधावेधोद्यतो यथा । यद्वद्,
क्रियास्वनन्यचित्तः स्यात् भवभीतस्तथा मुनिः ॥७४॥ २३/१ प्राप्तः षष्ठं गुणस्थानं, भवदुर्गाद्रिलङ्घनम् ।
लोकसंज्ञारतो न स्याद्, मुनिर्लोकोत्तरस्थितिः ॥ ७५ ॥ २३ / २ यथा चिन्तामणि दत्ते, बठरो बदरीफलैः ।
हा ! जहाति सद्धर्मं, तथैव जनरञ्जनैः ॥७६॥