________________
ज्ञानसार सूक्त - रत्न - મંજૂષા
१८/१ गुणैर्यदि न पूर्णोऽसि, कृतमात्मप्रशंसया ।
गुणैरेवासि पूर्णश्चेत्, कृतमात्मप्रशंसा ॥५५॥ १८ / २ श्रेयोद्रुमस्य मूलानि, स्वोत्कर्षाम्भः प्रवाहतः ।
पुण्यानि प्रकटीकुर्वन्, फलं किं समवाप्स्यसि ? ॥५६॥ १८/३ आलम्बिता हिताय स्युः, परैः स्वगुणरश्मयः ।
अहो ! स्वयं गृहीतास्तु, पातयन्ति भवोदधौ ॥५७॥ १८/४ उच्चत्वदृष्टिदोषोत्थ- स्वोत्कर्षज्वरशान्तिकम् ।
पूर्वपुरुषसिंहेभ्यो, भृशं नीचत्वभावनम् ॥५८॥ १८/५ शरीररूपलावण्य-ग्रामारामधनादिभिः ।
उत्कर्षः परपर्यायैः, चिदानन्दघनस्य कः ? ॥ ५९ ॥ १८/६ शुद्धाः प्रत्यात्मसाम्येन, पर्यायाः परिभाविताः ।
अशुद्धाश्चापकृष्टत्वात्, नोत्कर्षाय महामुनेः ॥६०॥ १८/ ७ क्षोभं गच्छन् समुद्रोऽपि स्वोत्कर्षपवनेरितः ।
गुणौघान् बुद्बुदीकृत्य, विनाशयसि किं मुधा ? ॥ ६१॥ १९/१ रूपे रूपवती दृष्टिः, दृष्ट्वा रूपं विमुह्यति ।
मज्जत्यात्मनि नीरूपे, तत्त्वदृष्टिस्त्वरूपिणी ॥६२॥ १९ / ३ ग्रामारामादि मोहाय यद् दृष्टं बाह्यया दृशा । तत्त्वदृष्ट्या तदेवान्तर्, नीतं वैराग्यसम्पदे ॥६३॥ १९/४ बाह्यदृष्टेः सुधासार - घटिता भाति सुन्दरी ।
तत्त्वदृष्टेस्तु सा साक्षाद्, विण्मूत्रपिठरोदरी ॥६४॥ १९/५ लावण्यलहरीपुण्यं, वपुः पश्यति बाह्यदृग् ।
तत्त्वदृष्टिः श्वकाकानां भक्ष्यं कृमिकुलाकुलम् ॥६५॥
१८3