________________
૧૯૨
જ્ઞાનસાર સૂક્ત - રત્ન - મંજૂષા १५/२ देहात्माद्यविवेकोऽयं, सर्वदा सुलभो भवे ।
भवकोट्याऽपि तद्भेद-विवेकस्त्वतिदुर्लभः ॥४४॥ १५/८ संयमास्त्रं विवेकेन, शाणेनोत्तेजितं मुनेः ।
धृतिधारोल्बणं कर्म-शत्रुच्छेदक्षम भवेत् ॥४५॥ १६/२ मनोवत्सो युक्तिगवीं, मध्यस्थस्यानुधावति ।
तामाकर्षति पुच्छेन, तुच्छाग्रहमनःकपिः ॥४६॥ १६/४ स्वस्वकर्मकृतावेशाः, स्वस्वकर्मभुजो नराः ।
न रागं नापि च द्वेषं, मध्यस्थस्तेषु गच्छति ॥४७॥ १६/७ स्वागमं रागमात्रेण, द्वेषमात्रात् परागमम् ।
न श्रयामस्त्यजामो वा, किन्तु मध्यस्थया दृशा ॥४८॥ १६/८ मध्यस्थया दृशा सर्वेष्वपुनर्बन्धकादिषु ।
चारिसंजीवनीचार-न्यायादाशास्महे हितम् ॥४९॥ १७/१ यस्य नास्ति परापेक्षा, स्वभावाद्वैतगामिनः ।
तस्य किं न भयभ्रान्ति-क्लान्तिसन्तानतानवम् ? ॥५०॥ १७/२ भवसौख्येन किं भूरि-भयज्वलनभस्मना ? ।
सदा भयोज्झितज्ञान-सुखमेव विशिष्यते ॥५१॥ १७/३ न गोप्यं क्वापि नारोप्यं, हेयं देयं च न क्वचित् ।
क्व भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यतः ? ॥५२॥ १७/६ कृतमोहास्त्रवैफल्यं, ज्ञानवर्म बिभर्ति यः ।
क्व भीस्तस्य क्व वा भङ्गः, कर्मसङ्गरकेलिषु ? ॥५३॥ १७/८ चित्ते परिणतं यस्य, चारित्रमकुतोभयम् ।
अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् ? ॥५४॥