________________
જ્ઞાનસાર સૂક્ત- રત્ન - મંજૂષા
૧૯૧
११/२ नाहं पुद्गलभावानां, कर्ता कारयिताऽपि च ।
नानुमन्ताऽपि चेत्यात्म-ज्ञानवान् लिप्यते कथम् ? ॥३३॥ १०/६ अलिप्तो निश्चयेनात्मा, लिप्तश्च व्यवहारतः ।
शुद्ध्यत्यलिप्तया ज्ञानी, क्रियावान् लिप्तया दृशा ॥३४॥ १२/१ स्वभावलाभात् किमपि, प्राप्तव्यं नावशिष्यते ।
इत्यात्मैश्वर्यसम्पन्नो, निःस्पृहो जायते मुनिः ॥३५॥ १२/२ संयोजितकरैः के के, प्रार्थ्यन्ते न स्पृहावहै: ? ।
अमात्रज्ञानपात्रस्य, निःस्पृहस्य तृणं जगत् ॥३६॥ १२/७ भूशय्या भैक्षमशनं, जीर्णं वासो वनं गृहम् ।
तथाऽपि निःस्पृहस्याहो !, चक्रिणोऽप्यधिकं सुखम् ॥३७॥ १२/८ परस्पृहा महादुःखं, निःस्पृहत्वं महासुखम् ।
एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥३८॥ १३/४ यतः प्रवृत्तिर्न मणौ, लभ्यते वा न तत्फलम् ।
अतात्त्विकी मणिज्ञप्तिः, मणिश्रद्धा च सा यथा॥३९॥ १३/५ तथा यतो न शुद्धात्म-स्वभावाचरणं भवेत् ।
फलं दोषनिवृत्तिर्वा, न तज्ज्ञानं न दर्शनम् ॥४०॥ १३/७ सुलभं वागनुच्चारं, मौनमेकेन्द्रियेष्वपि ।
पुद्गलेष्वप्रवृत्तिस्तु, योगानां मौनमुत्तमम् ॥४१॥ १४/३ तरङ्गतरलां लक्ष्मीम्, आयुर्वायुवदस्थिरम् ।
अदभ्रधीरनुध्यायेद्, अभ्रवद् भङ्गुरं वपुः ॥४२॥ १४/४ शुचीन्यप्यशुचीकर्तुं, समर्थेऽशुचिसम्भवे ।
देहे जलादिना शौच-भ्रमो मूढस्य दारुणः ॥४३॥