________________
१८०
९ / १ ज्ञानी क्रियापरः शान्तो, भावितात्मा जितेन्द्रियः । स्वयं तीर्णो भवाम्भोधेः, परांस्तारयितुं क्षमः ॥२२॥ १/२ क्रियाविरहितं हन्त, ज्ञानमात्रमनर्थकम् ।
गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥२३॥ ९/४ बाह्यभावं पुरस्कृत्य येऽक्रिया व्यवहारतः । वदने कवलक्षेपं विना ते तृप्तिकाङ्क्षिणः ॥२४॥ ९/५ गुणवद्बहुमानादेः, नित्यस्मृत्या च सत्क्रिया ।
जातं न पातवेद् भावम् अजातं जनवेदपि ॥ २५ ॥ ९/६ क्षायोपशमिके भावे, या क्रिया क्रियते तया । पतितस्यापि तद्भाव प्रवृद्धिजयते पुनः ॥ २६ ॥ ९ / ७ गुणवृद्ध्यै ततः कुर्यात्, क्रियामस्खलनाय वा ।
एकं तु संयमस्थानं, जिनानामवतिष्ठते ॥२७॥ १०/२ स्वगुणैरेव तृतिश्चेद् आकालमविनश्वरी ।
"
ज्ञानिनो विषयैः किं तैः यैर्भवेत् तृप्तिरित्वरी ? ॥२८॥ १०/३ या शान्तैकरसास्वादाद्, भवेत् तृप्तिरतीन्द्रिया । सा न जिह्वेन्द्रियद्वारा, षड्रसास्वादनादपि ॥२९॥ १०/५ पुलैः पुलास्तुतिं यान्यात्मा पुनरात्मना ।
परतृप्तिसमारोपो, ज्ञानिनस्तन्न युज्यते ॥३०॥ १०/७ विषयोर्मिविषोद्वारः स्यादतृप्तस्य पुद्गलैः ।
ज्ञानतृप्तस्य तु ध्यान- सुधोद्गारपरम्परा ॥३१॥ १०/८ सुखिनो विषयातृप्ता, नेन्द्रोपेन्द्रादयोऽप्यहो ! ।
भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः ॥३२॥
"
જ્ઞાનસાર સૂક્ત - રત્ન - મંજૂષા
7